भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.107

12.107.1

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च ॥

12.107.2

राज्ञां वृत्तं च कोशं च कोशसञ्चयनं जयः ।
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम् ॥

12.107.3

षाङ्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च ।
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ॥

12.107.4

समहीनाधिकानां च यथावल्लक्षणं च यत् ।
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ॥

12.107.5

क्षीणग्रहणवृत्तिश्च यथा धर्मं प्रकीर्तितम् ।
लघुनाऽदेशरूपेण ग्रन्थयोगेन भारत ॥

12.107.6

विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते ।
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥

12.107.7

यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत ।
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥

12.107.8

भेदमूलो विनाशो हि गणानामुपलक्षये ।
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥

12.107.9

एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप ।
यथा च ते न भिद्येरंस्तच्च मे वद भारत ॥
भीष्म उवाच ।

12.107.10

गणानां च कुलानां च राज्ञां भरतसत्तम ।
वैरसन्दीपनावेतौ लोभामर्षौ नराधिप ॥

12.107.11

लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् ।
ततो ह्यमर्षसंयुक्तावन्योन्यजनिताशयौ ॥

12.107.12

चारमन्त्रबलादानैः सामदानविभेदनैः ।
क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम् ॥

12.107.13

तत्रादानेन भिद्यन्ते गणाः सन्घातवृत्तयः ।
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥

12.107.14

भेदे गणा विनश्युर्हि भिन्नास्तु सुजयाः परैः ।
तस्मात्सन्घातयोगेन प्रयतेरन्गणाः सदा ॥

12.107.15

अर्थाश्चैवाधिगम्यन्ते सन्घातबलपौरुषैः ।
ब्राह्माश्च मैत्रीं कुर्वन्ति तेषु सन्घातवृत्तिषु ॥

12.107.16

ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम् ।
विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः ॥

12.107.17

धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः ।
यथावत्प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः ॥

12.107.18

पुत्रान्भ्रातृन्निगृह्णन्तो विनयन्तश्च तान्सदा ।
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥

12.107.19

चारमन्त्रविधानेषु कोशसन्निचयेषु च ।
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥

12.107.20

प्राज्ञांश्चारान्महोत्साहान्कर्मसु स्थिरपौरुषान् ।
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥

12.107.21

द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः ।
कृच्छ्रास्वापत्सु सम्मूढान्गणाः सन्तारयन्ति ते ॥

12.107.22

क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः ।
नयत्यरिवशं सद्यो गणान्भरतसत्तम ॥

12.107.23

तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः ।
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥

12.107.24

मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शण ।
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥

12.107.25

गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः ॥

12.107.26

पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा ।
अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति व ॥

12.107.27

तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् ।
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥

12.107.28

कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः ।
गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम् ॥

12.107.29

आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम् ।
आभ्यन्तरं भयं राजन्सद्यो मूलानि कृन्तति ॥

12.107.30

अकस्मात्क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात् ।
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥

12.107.31

जात्या च सदृशाः सर्वे कुलेन सदृशास्तथ ।
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः ॥

12.107.32

भेदाच्चैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः ।
तस्मात्सन्घातमेवाहुर्गणानां शरणं महत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc