भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.9

11.9.1

गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः ।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥
वैशम्पायन उवाच ।

11.9.2

एतच्छ्रुत्वा नरश्रेष्ठश्चिरं ध्यात्वा त्वचेतनः ।
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत ॥

11.9.3

क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।
कुन्तीं चैव तथा क्षत्तः समानय ममाऽन्तिकम् ॥

11.9.4

एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् ।
शोकविप्रहतज्ञानो यानमेवान्वरोहत ॥

11.9.5

गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता ।
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ॥

11.9.6

ताः समासाद्य राजानं भृशं शोकसमन्विताः ।
आमन्त्र्यान्योन्यमायस्ता भृशमुच्चुक्रुशुस्ततः ॥

11.9.7

ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् ।
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ॥

11.9.8

ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु ।
आकुमारं पुरं सर्वमभवच्छोककर्शितम् ॥

11.9.9

अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि ।
पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः ॥

11.9.10

प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च ।
एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ॥

11.9.11

श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन् ।
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः ॥

11.9.12

तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः ।
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गणे ॥

11.9.13

प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि ।
दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम् ॥

11.9.14

विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः ।
शोकेनोपहतज्ञाताः कर्तव्यं न प्रजज्ञिरे ॥

11.9.15

व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः ।
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ॥

11.9.16

परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः ।
ताः शोकविह्वला राजन्नवैक्षन्त परस्परम् ॥

11.9.17

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः ।
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ॥

11.9.18

शिल्पिनो वणिजो वैश्याः सर्वे कर्मोपजीविनः ।
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः ॥

11.9.19

तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये ।
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत ॥

11.9.20

युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव ।
अभावस्योदयः प्राप्त इति भूतानि मेनिरे ॥

11.9.21

भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये ।
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ॥

11.9.1

विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः ।
युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत् ॥
धृतराष्ट्र उवाच ।

11.9.2

शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc