भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.8

11.8.1

विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः ।
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः ॥

11.8.2

तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य बान्धवाः ।
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥

11.8.3

सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः ।
जलेन सुखशीतेन तालवृन्तैश्च भारत ॥

11.8.4

पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः ।
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम् ॥

11.8.5

अथ दीर्घस्य कालस्य लब्धस्̤अञ्ज्ञो महीपतिः ।
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥

11.8.6

धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् ।
यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः ॥

11.8.7

मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि ।
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ॥

11.8.8

येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति ।
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते ॥

11.8.9

तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात् । [तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्]

11.8.10

तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ।
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् ॥

11.8.11

धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः ।
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः ॥

11.8.12

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः ।
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् ॥
व्यास उवाच ।

11.8.13

धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक ।
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो ॥

11.8.14

न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप ।
अनित्यतां हि भूतानां विजानासि न संशयः ॥

11.8.15

अध्रुवे जीवलोके च स्थाने वा शाश्वते सति ।
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक ॥

11.8.16

प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः ।
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः ॥

11.8.17

अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप ।
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥

11.8.18

जानता च महाबाहो विदुरेण महात्मना ।
यतितं सर्वयत्नेन शमं प्रति जनेश्वर ॥

11.8.19

न च दैवकृतो मार्गः शक्यो भूतेन केनचित् ।
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः ॥

11.8.20

देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् ।
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव ॥

11.8.21

पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः ।
अपश्यं तत्र च सदा समवेतान्दिवौकसः ॥

11.8.22

नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान् ।
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते ॥

11.8.23

कार्यार्थमुपसम्पन्ना देवतानां समीपतः ।
उपगम्य तदा धात्री देवानाह समागतान् ॥

11.8.24

यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ।
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥

11.8.25

तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः ।
उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि ॥

11.8.26

धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै ।
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ॥

11.8.27

तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ।
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः ॥

11.8.28

अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ।
ततस्ते भविता देवि भारस्य युधि नाशनम् ॥

11.8.29

गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ।
स एष ते सुतो राजँल्लोकसंहारकारणात् ॥

11.8.30

कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ।
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः ॥

11.8.31

दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः ।
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा ॥

11.8.32

समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ।
[यादृशो जायते राजा तादृशोऽस्य जनो भवेत् ॥

11.8.33

अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत् ।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः ॥

11.8.34

दुष्टं राजानमासाद्य गतास्ते तनया नृप.] एतमर्थं महाबाहो नारदो वेद तत्त्ववित् ॥

11.8.35

आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते ।
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥

11.8.36

न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत ।
पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥

11.8.37

नारदेन च भद्रं ते पूर्वमेव न संशयः ।
युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥

11.8.38

पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम् ।
नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥

11.8.39

नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः ।
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥

11.8.40

कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो ।
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥

11.8.41

एष चार्थो महाबाहो पूर्वमेव मया श्रुतः ।
कथितो धर्मराजस्य राजसूये कुरूत्तम ॥

11.8.42

यतितं धर्मपुत्रेण मया गुह्ये निवेदिते ।
अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥

11.8.43

अनतिक्रमणीयो हि विधी राजन्कथञ्चन ।
कृतान्तस्य तु भूतेन स्थावरेण चरेण च ॥

11.8.44

भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत ।
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥

11.8.45

त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः ।
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥

11.8.46

कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि ।
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति ॥

11.8.47

मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम् ।
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥

11.8.48

एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति ।
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥

11.8.49

पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा ।
प्रज्ञाम्भसा महाराज निर्वापय सदा सता ॥
वैशम्पायन उवाच ।

11.8.50

तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः ।
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत ॥

11.8.51

महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम ।
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥

11.8.52

इदं तु वचनं श्रुत्वा तव देवनियोगजम् ।
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुं ॥

11.8.53

एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः ।
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥

11.8.1

गते भगवति व्यासे धृतराष्ट्रो महीपतिः ।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥

11.8.2

तथैव कौरवो राजा धर्मपुत्रो महामनाः ।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥

11.8.3

अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः ।
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ॥
वैशम्पायन उवाच ।

11.8.4

हते दुर्योधने चैव हते सैन्ये च सर्वशः ।
सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः ॥
सञ्जय उवाच ।

11.8.5

आगम्य नानादेशेभ्यो नानाजनपदेश्वराः ।
पितृलोकं गता राजन्सर्वे तव सुतैः सह ॥

11.8.6

याच्यमानेन सततं तव पुत्रेण भारत ।
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता ॥

11.8.7

पुत्राणामथ पौत्राणां पितॄणां च महीपते ।
आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय ॥
वैशम्पायन उवाच ।

11.8.8

तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः ।
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले ॥

11.8.9

तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम् ।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥

11.8.10

उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥

11.8.11

अभावादीनि भूतानि भावमध्यानि भारत ।
अभावनिधनान्येव तत्र का परिदेवना ॥

11.8.12

न शोचन्मृतमन्वेति न शोचन्म्रियते नरः ।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥

11.8.13

अयुध्यमानो म्रियते युध्यमानस्तु जीवति ।
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥

11.8.14

कालः कर्षति भूतानि सर्वाणि विविधानि च ।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥

11.8.15

यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः ।
तथा कालवशं यान्ति भूतानि भरतर्षभ ॥

11.8.16

एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ॥

11.8.17

यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि ।
न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः ॥

11.8.18

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।
तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः ॥

11.8.19

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥

11.8.20

शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः ।
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः ॥

11.8.21

एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् ।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥

11.8.22

क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः ।
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि ॥

11.8.23

आत्मनाऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ ।
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc