भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.27

11.27.1

ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम् ।
ह्लादिनीं च प्रसन्नां च महारूपां महावनाम् ॥

11.27.2

भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च ।
कवचानि विचित्राणि गङ्गामवजगाहिरे ॥

11.27.3

ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च ।
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः ॥

11.27.4

उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ।
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाम् ॥

11.27.5

उदके क्रियमाणे तु वीराणां विरपत्निभिः ।
सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च ॥

11.27.6

तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् ।
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ॥

11.27.7

ततः कुन्ती महाराज रुदन्ती शोककर्शिता ।
व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥

11.27.8

यः स वीरो महेष्वासो रथयूथपयूथपः ।
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ॥

11.27.9

यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः ।
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥

11.27.10

प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान् ।
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥

11.27.11

यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन ।
यो वृणीत यशः शूरः प्राणैरपि सदा भुवि ॥

11.27.12

कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः ।
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः ॥

11.27.13

स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ।
कुण्डली कवची शूरो दिवाकरसमप्रभः ॥

11.27.14

श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् ।
कर्णमेवानुशोचन्तो भूयश्चात्यातुरा भवन् ॥

11.27.15

ततः स पुरुषव्याघ्रः रुन्तीपुत्रो युधिष्ठिरः ।
उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥

11.27.16

यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः ।
तलशब्दप्रणुदितो महारथमहाग्रहः ॥

11.27.17

यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात् । कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत् ।
कुण्डली कवची शूरो दिवाकरसमप्रभः ॥

11.27.18

यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् ।
तमग्निमिव वस्त्रेण कथं छादितवत्यसि ॥

11.27.19

यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत् ।
सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि ॥

11.27.20

तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम् ।
उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः ॥

11.27.21

भूमिपानां च सर्वेषां बलं बलवतां वरः ।
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनो रथी ॥

11.27.22

स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ।
असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥

11.27.23

अहो भवत्या मन्त्रस्य गूहनेन वयं हताः ।
निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः ॥

11.27.24

अभिमन्योर्विनाशेन द्रौपदेयवधेन च ।
पाञ्चालानां विनाशेन, कुरूणां घातनादपि ॥

11.27.25

ततः शतगुणं दुःखमिदमापतितं महत् ।
कर्णमेवानुशोचापि दह्याम्यग्नाविवाहितः ॥

11.27.26

नेह स्म किञ्चिदप्राप्य भवेदपि दिवि स्थितम् ।
न चेदं वैशसं घोरकं कौरवान्तकरं भवेत् ॥

11.27.27

एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः ।
व्यरुदच्छनकैः राजंश्चकारास्योदकं प्रभुः ॥

11.27.28

ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः ।
अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि ॥

11.27.29

तत आनाययामास कर्णस्य सपरिच्छदाः ।
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥

11.27.30

स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् ।
सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम् ॥

11.27.31

स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः । समुत्ततार गङ्गाया भार्यया सह भारत ॥

11.27.32

[पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः ।
अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति ॥

11.27.33

इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः । भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान् ॥ ] ॥

11.27.1

अतः परंशान्तिपर्व भविष्यति तस्यायमाद्यः श्लोकः ।
वैशम्पायन उवाच ।
कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः ।
विदुरे धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc