भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.26

11.26.1

उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ।
तवैव ह्यपराधेन कुरवो निधनं गताः ॥

11.26.2

यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् ।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥

11.26.3

निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम् ।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥

11.26.4

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥

11.26.5

तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी ।
शूद्रा दासं पशुपालं च वैश्या वधार्थीयं त्वद्विधा राजपुत्री ॥
वैशम्पायन उवाच ।

11.26.6

तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् ।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥

11.26.7

धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः ।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम् ॥

11.26.8

जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव ।
हतानां यदि जानीषे परिमाणं वदस्वं मे ॥
युधिष्ठिर उवाच ।

11.26.9

दशायुतसहस्राणि सहस्राणि च विंशतिः ।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः ॥

11.26.10

आलक्षाणां च वीराणां सहस्राणि चतुर्दश ।
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत ॥
धृतराष्ट्र उवाच ।

11.26.11

युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम ।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥
युधिष्ठिर उवाच ।

11.26.12

यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे ।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥

11.26.13

ये त्वहृष्टेन मनसा मर्तव्यमिति भारत ।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः ॥

11.26.14

ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः ।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥

11.26.15

पात्यमानाः परैर्ये तु हीयमाना निरायुधाः ।
हीनिषेवा महात्मानः परानभिमुखा रणे ॥

11.26.16

छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः ।
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः ॥

11.26.17

ये त्वत्र निहता राजन्नन्तरायोधनं प्रति ।
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम् ॥
धृतराष्ट्र उवाच ।

11.26.18

केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत् ।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥
युधिष्ठिर उवाच ।

11.26.19

निदेशाद्भवतः पूर्वं वने विचरता मया ।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः ॥

11.26.20

देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् ।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥
धृतराष्ट्र उवाच ।

11.26.21

ये त्वनाथा जनास्तात नाथवन्तश्च पाण़्डव ।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥
युधिष्ठिर उवाच ।

11.26.22

न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः ।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम् ॥

11.26.23

यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः ।
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः ॥
वैशम्पायन उवाच ।

11.26.24

एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ॥

11.26.25

विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः ॥

11.26.26

भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः ।
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति ॥

11.26.27

शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः ।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥

11.26.28

चन्दनागुरुकाष्ठानि तथा कालीयकान्युत ।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥

11.26.29

समाहृत्य महार्हाणि दारुणां चैव सञ्चयान् ।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च ॥

11.26.30

चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा ॥

11.26.31

दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा ॥
शल्यं शलं च राजानं भूरिश्रवसमेव च ॥

11.26.32

जयद्रथं च राजानमभिमन्युं च भारत ।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥

11.26.33

बृहद्वलं सोमदत्तं सृञ्जयं च महारथम् ।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥

11.26.34

शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् ।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥

11.26.35

कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् ।
अचलं वृषकं चैव भगदत्ते च पार्थिवम् ॥

11.26.36

कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् ।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥

11.26.37

घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च ।
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम् ॥

11.26.38

एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः । धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ।

11.26.39

पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम् ।
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः ॥

11.26.40

साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः ।
कश्मलं सर्वभूतानां निशायां समपद्यत ॥

11.26.41

हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः ।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥

11.26.42

ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ।
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः ॥

11.26.43

चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः ।
दाहयामास तान्सर्वान्विदुरो राजशासनात् ॥

11.26.44

कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः ।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc