भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.23

11.23.1

एष शल्यो हतः शेते साक्षान्नकुलमातुलः ।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे ॥

11.23.2

यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ ।
स एष निहतः शेते मद्रराजो महाबलः ॥

11.23.3

जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन । मद्रपुत्रे कथं ब्रूयुरुपरोधं विवक्षवः ॥

11.23.4

येन सङ्गृह्णता तात रथमाधिरथेर्युधि ।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः ॥

11.23.5

अहो धिक्फश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् ।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम् ॥

11.23.6

एषा चामीकराभस्य तप्तकाञ्चनसप्रभा ।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥

11.23.7

युधिष्ठिरेण निहतं शल्यं समितिशोभनम् ।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः ॥

11.23.8

एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् ।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥

11.23.9

शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः ।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ॥

11.23.10

शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन ।
शयानं वीरशयने शरैर्विशकलीकृतम् ॥

11.23.11

एष शैलालयो राजा भगदत्तः प्रतापवान् ।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः ॥

11.23.12

यस्य रुक्ममयी माला शिरस्येषा विराजते ।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥

11.23.13

एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् ।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा ॥

11.23.14

योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम् ।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥

11.23.15

यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन् ।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥

11.23.16

पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् ।
युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥

11.23.17

एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् ।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥

11.23.18

शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम् ।
शयानं वीरशयने पश्य शूरनिषेविते ॥

11.23.19

कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् ।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥

11.23.20

अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् ।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥

11.23.21

पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः ।
एष शान्तनवः शेते माधवाप्रतिमो युधि ॥

11.23.22

धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये ।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥

11.23.23

नास्ति युद्धे कृती कश्चिन्न विद्वान््न पराक्रमी ।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः ॥

11.23.24

स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः ।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना ॥

11.23.25

प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः ।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥

11.23.26

धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव ।
हते देवव्रते भीष्मे देवकल्पे नरर्षभे ॥

11.23.27

अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा ।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम् ॥

11.23.28

अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः ।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥

11.23.29

यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् ।
चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥

11.23.30

यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् ।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः ॥

11.23.31

यस्य निर्दहतः सेनां गतिरग्नरिवाभवत् ।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥

11.23.32

धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव ।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥

11.23.33

वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव ।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ॥

11.23.34

चन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥

11.23.35

द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन ।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥

11.23.36

तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् ।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥

11.23.37

बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव ।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥

11.23.38

प्रेतकृत्ये च यतते कृपी कृपणमातुरा ।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥

11.23.39

अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः ।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥

11.23.40

कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः ।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥

11.23.41

शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् ।
त एते द्रोणमादाय गायन्ति च रुदन्ति च ॥

11.23.42

सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे ।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने ॥

11.23.43

गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः ।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc