भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.22

11.22.1

आवनत्यं भीमसेनेन भक्षयन्ति निपातितम् ।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत् ॥

11.22.2

तं पश्य कदनं कृत्वा शूराणां मधुसूदन ।
शयानं वीरशयने रुधिरेण समुक्षितम् ॥

11.22.3

तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः ।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥

11.22.4

शयानं वीरशयने शूरमाक्रन्दकारिणम् ।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥

11.22.5

प्रातिपेयं महेष्वासं हतं भीमेन बाह्लिकम् ।
प्रसुप्तमिव शार्दुलं पश्य कृष्णमनस्विनम् ॥

11.22.6

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते ।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥

11.22.7

पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता ।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः ॥

11.22.8

एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः ।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ॥

11.22.9

सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् ।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ॥

11.22.10

संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत ।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात् ॥

11.22.11

तमेताः पर्यपासन्ते वीक्षमाणा महाभुजम् ।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः ॥

11.22.12

यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह ।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥

11.22.13

दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः ।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥

11.22.14

सैन्धवं मे सुता बाला प्रस्स्वलन्तीव दुःखिता ।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान् ॥

11.22.15

किन्नु दुःखतरं कृष्ण परं मम भविष्यति ।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥

11.22.16

हाहा धिग्धुःशलां पश्य वीतशोकभयामिव ।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः ॥

11.22.17

वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्विनः ।
स हत्वा विपुलाः सेनाः सर्वयं मृत्युवशं गतः ॥

11.22.18

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् ।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc