भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.9

10.9.1

ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः ।
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥

10.9.2

गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम् ।
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥

10.9.3

तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् ।
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥

10.9.4

वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः ।
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥

10.9.5

निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून् ।
विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम् ॥

10.9.6

तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम् । हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन् ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥

10.9.7

तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः ।
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः ॥

10.9.8

ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् ।
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥

10.9.9

ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि ।
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत् ॥
कृप उवाच ।

10.9.10

न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः ।
एकादशचमूभर्ता शेते दुर्योधनो हतः ॥

10.9.11

पश्य चामीकराभस्य चामीकरविभूषिताम् ।
गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥

10.9.12

इयमेनं गदा शूरं न जहाति रणेरणे ।
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥

10.9.13

पश्येमां सह वीरेण जाम्बूनदविभूषिताम् ।
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव ॥

10.9.14

योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः ।
स हतो ग्रसते पांसून्पश्य कालसय पर्ययम् ॥

10.9.15

येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः ।
स भूमौ निहतः शेते कुरुराजः परैरयम् ॥

10.9.16

भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः ।
स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥

10.9.17

यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम् ।
उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः ॥
सञ्जय उवाच ।

10.9.18

तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम् ।
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत् ॥

10.9.19

आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् ।
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च ॥

10.9.20

कथं विवरमद्राक्षीद्भीमसेनस्तवानघ ।
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप ॥

10.9.21

कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः ।
पश्यामो निहतं त्वां च भीमसेनेन संयुगे ॥

10.9.22

कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः ।
निकृत्या हतवान्मन्दो नून कालो दुरत्ययः ॥

10.9.23

द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे ।
गदया भीमसेनेन निर्भग्ने सक्थिनी तव ॥

10.9.24

अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः ।
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु--युधिष्ठिरम् ॥

10.9.25

युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् ।
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥

10.9.26

ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः ।
दुर्योधनसमो नास्ति गदायामिति वीर्यवान् ॥

10.9.27

श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत ।
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥

10.9.28

यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः ।
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥

10.9.29

दुर्योधन न शोचामि त्वामहं पुरुषर्षभ ।
हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते ॥

10.9.30

द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ ।
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्् ॥

10.9.31

घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् ।
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम् ॥

10.9.32

पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप ।
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥

10.9.33

धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः ।
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥

10.9.34

हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा ।
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते ॥

10.9.35

धिगस्तु कृतवर्माणं मां कृपं च महारथम् ।
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥

10.9.36

दातारं सर्वकामानां रक्षितारं प्रजाहितम् ।
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान् ॥

10.9.37

कृपस्य तव वीर्येण मम चैव पितुश्च मे ।
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥

10.9.38

तव प्रसादादस्माभिः समित्रैः सह बान्धवैः ।
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥

10.9.39

कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम् ।
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥

10.9.40

वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् । यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम् ।

10.9.41

तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते ।
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै ॥

10.9.42

दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम् ।
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं ॥

10.9.43

गत्वैव तु महाराज समेत्य च महारथान् ।
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम ॥

10.9.44

आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् ।
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप ॥

10.9.45

परिष्वजेथा राजानं बाह्लिकं सुमहारथम् ।
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥

10.9.46

तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान् ।
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस््वमनामयम् ॥
सञ्जय उवाच ।

10.9.47

इत्येवमुक््वा राजानं भग्नसक्थमचेतसम् ।
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत् ॥

10.9.48

दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु ।
सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम् ॥

10.9.49

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥

10.9.50

द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः ।
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥

10.9.51

कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः ।
सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥

10.9.52

मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते ।
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥

10.9.53

दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् ।
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥

10.9.54

न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता ।
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥

10.9.55

स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना ।
तेन मन्ये मघवता सममात्मानमद्य वै ॥

10.9.56

स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः ।
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः ॥

10.9.57

प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत् ।
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत् ॥

10.9.58

एवं ते निधनं यातः पुत्रो दुर्योधनो नृप ।
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः ॥

10.9.59

तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम् ।
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥

10.9.60

इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम् ।
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति ॥

10.9.61

एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव ॥

10.9.62

तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ ।
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥
वैशम्पायन उवाच ।

10.9.63

इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा ।
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc