भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.10

10.10.1

तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः ।
गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम् ॥
सूत उवाच ।

10.10.2

द्रौपदेया हता राजन्द्रुपदस्वात्मजैः सह ।
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥

10.10.3

गौतमेन नृशंसेन भोजेन कृतवर्मणा ।
अश्वत्थान्ना च पापेन हतं वः शिबिरं निशि ॥

10.10.4

एतैर्नरगजाश्वानां प्रासशक्तिपरश्वयैः ।
सहस्रामि विकृन्द्भिर्निः शेषं शिबिरं कृतम् ॥

10.10.5

xxxxxxविहगफलभारनतस्य ह । xxxxxxxमहतो वनस्येव परश्वथैः ।
xxxxxxxx सुमहाञ्शब्दो बलस्य तव भारत ॥

10.10.6

महमेकोऽबशिष्टस्तु तस्मात्सैन्यामहीपते ।
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः ॥

10.10.7

तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः ।
पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः ॥

10.10.8

पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥

10.10.9

लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा ।
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत् ॥

10.10.10

अगम्या गतिरर्थानां कर्मणामीश्वरस्य च । दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः ।
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥

10.10.11

हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् ।
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥

10.10.12

अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः ।
जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥

10.10.13

यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः ।
कथं मन्येत विजयं ततो जिततरः परैः ॥

10.10.14

येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः ।
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥

10.10.15

कर्णिनालीकदंष्ट्रस्य स्वङ्गजिह्वस्य संयुगे ।
चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः ॥

10.10.16

क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः ।
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः ॥

10.10.17

रथहदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनयोधबृन्दम् ।
शक्त्यृष्टिमीनध्वजनागनक्रं शरासनावर्तमहेषुफेनम् ॥

10.10.18

सङ्ग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम् ।
ये तेरुरुच्चावचशस्त्रनौभि-- स्ते राजपुत्रा निहताः प्रमादात् ॥

10.10.19

न हि प्रमादात्परमस्ति कश्च-- द्वधो नराणामिह जीवलोके ।
प्रमत्तमर्था हि नरं समन्ता-- त्त्यजन्त्यनर्थाश्च समाविशन्ति ॥

10.10.20

ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं दीप्तमहापताकम् ।
महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रहोमम् ॥

10.10.21

महाचमूकक्षदवाभिपन्नं महाहवे भीष्ममहादवाग्निम् ।
ये तेरुरुच्चावचशस्त्रवेगै-- स्ते राजपुत्रा निहताः प्रमादात् ॥

10.10.22

न हि प्रमत्तेन नरेण शक्य-- माप्तुं वसु श्रीर्विपुलं यशो वा ।
पश्याप्रमादेन निहत्य शत्रू-- न्सर्वान्महेन्द्रं सुखमेधमानम् ॥

10.10.23

इन्द्रोपमान्पार्थिवपुत्रपौत्रा-- न्पश्याविशेषेण हतान्प्रमादात् ।
तीर्त्वा समुद्रं जणिजः समृद्वा । मग्नाः कुनद्यामिव सीदमानाः ॥

10.10.24

अमर्षितैर्ये निहता नरेन्द्रा निःसंशयं ते त्रिदिवं प्रपन्नाः ।
कृष्णां तु शोचामि कथं नु साध्वी शोकार्णवं सा विषहिष्यतीति ॥

10.10.25

भातृंश्च पुत्रांश्च हतान्निशम्य पाञ्चालसराजं पितरं च वृद्वम् ।
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां सा शोष्यते शोककृशाङ्गयष्टिः ॥

10.10.26

तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम् ।
रोरूयते ज्ञातिवधाभितप्ता प्रदह्वमानेव हुताशनेन ॥

10.10.27

इत्येवमार्तः परिदेवयन्स राजाज कुरूणां नकुलं बभाषे ।
गच्छान्यैनामिह मन्दभाग्यां समातृपक्षामिति राजपुत्रीम् ॥

10.10.28

माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रथमस्य राज्ञः ।
ययौ रथेनालयमाशुदेव्याः पाञ्चालराजस्य च यत्र दाराः ॥

10.10.29

प्रस्थाप्य माद्रीसुतमाजमीढः शोकार्दितस्तैः सहितः सुहृद्भिः ।
रोरूयमाणः प्रययौ सुताना-- मायोधनं भूतगणानुकीर्णम् ॥

10.10.30

स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदः सखींश्च ।
भूमौ शयानान्रुधिरार्द्रगात्रा-- न्विभिन्नदेहान्प्रहृतोत्तमाङ्गान् ॥

10.10.31

स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः ।
उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसञ्ज्ञः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc