भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.2

10.2.1

श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो ।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ॥

10.2.2

आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः ।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥

10.2.3

न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम ।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥

10.2.4

ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः ।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥

10.2.5

पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम् ।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम् ॥

10.2.6

उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम् ।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः ॥

10.2.7

सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते ।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥

10.2.8

तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते ।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः ॥

10.2.9

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च ॥

10.2.10

कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति ।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥

10.2.11

उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम् ।
अभलं दृश्यते लोके सम्यगप्युपपादितम् ॥

10.2.12

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः ।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥

10.2.13

प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि ।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम् ॥

10.2.14

चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया ।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि ॥

10.2.15

शक्नोति जीवितुं दक्षो नालसः सुखमेधते ।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥

10.2.16

यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम् ।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति ॥

10.2.17

नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित् ।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः ॥

10.2.18

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा ।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः ॥

10.2.19

हीनं पुरुषकारेण यदि दैवेन वा पुनः ।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ॥

10.2.20

हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥

10.2.21

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते ।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते ॥

10.2.22

सम्यगीहा पुनरियं या बृद्धानुपसेवते ।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥

10.2.23

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः ।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥

10.2.24

वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत् ।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥

10.2.25

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः ।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥

10.2.26

सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना ।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः ॥

10.2.27

हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह ।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥

10.2.28

पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति ।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः ॥

10.2.29

अनुवर्तामहे यत्तु तं वयं पापपूरुषम् ।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥

10.2.30

अएन तु ममाद्यापि व्यसनेनोपतापिता ।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते ॥

10.2.31

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः ।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति ॥

10.2.32

ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः ।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥

10.2.33

ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम् ।
उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥

10.2.34

ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम् ।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥

10.2.35

अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् ॥

10.2.36

कृते पुरुषकारे तु येषां कार्यं न सिध्यति ।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc