भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.1

10.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
सञ्जय उवाच ।

10.1.1

ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः ।
उपास्तमयवेलायां शिबिराभ्याशमागताः ॥

10.1.2

विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात् ।
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥

10.1.3

सेनानिवेशमभितो नातिदूरमवस्थिताः । [निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः.]
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् ॥

10.1.4

श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ।
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः ॥

10.1.5

ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः ।
नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः ॥

10.1.6

राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥
धृतराष्ट्र उवाच ।

10.1.7

अश्रद्धेयमिदं कर्म कृतं मीमेन सञ्जय ।
यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥

10.1.8

अवध्यः सर्वभूतानां वज्रसंहननो युवा ।
पाण्डवैः समरे पुत्रो निहतो मम निपातितः ॥

10.1.9

न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः ।
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥

10.1.10

अद्रिसारमयं नूनं हृदयं मम सञ्जय ।
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥

10.1.11

कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति ।
न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे ॥

10.1.12

कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय ।
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥

10.1.13

प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय । कथमद्य भविष्यामि श्रोतुं शक्ष्यामि सञ्जय ।

10.1.14

येन पुत्रशतं पूर्णमेकेन निहतं मम ॥ कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः ।

10.1.15

अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय ॥ अधर्मेण हते तात पुत्रे दुर्योधने मम ।

10.1.16

कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥
सञ्जय उवाच ।

10.1.17

गत्वा तु तावका राजन्नातिदूरं मनस्विनः ।
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम् ॥

10.1.18

ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः ।
सूर्यास्तमयवेलायां कौरवेयस्य शासनात् ॥

10.1.19

नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम् ।
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥

10.1.20

नानातोयसमाकीर्णैस्तटाकैरुपशोभितम् ।
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥

10.1.21

प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः ।
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥

10.1.22

उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः ।
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥

10.1.23

तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः ।
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥

10.1.24

ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे ।
सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत ॥

10.1.25

ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् ।
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥

10.1.26

इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः ।
दिवाचराश्च ये सत्वास्ते निद्रावशमागताः ॥

10.1.27

रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः ।
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥

10.1.28

तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः ।
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥

10.1.29

उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः ।
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥

10.1.30

निद्रया च परीताङ्गा निषेदुर्धरणीतले ।
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥

10.1.31

ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ ।
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥

10.1.32

तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ । [महार्हशयनोपेतौ भूमावेव ह्यनाथवत् ॥ ]

10.1.33

क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत ।
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥

10.1.34

न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना ।
वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥

10.1.35

वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम् ।
अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम् ॥

10.1.36

तत्र काकसहस्राणि तां निशां पर्यणामयन् ।
सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः ॥

10.1.37

सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः ।
सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम् ॥

10.1.38

महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् ।
सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम् ॥

10.1.39

सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण़्डजः ।
न्यग्रोधस्य ततः साखां पातयामास भारत ॥

10.1.40

सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः ।
सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः ॥

10.1.41

केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह ।
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥

10.1.42

क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः ॥

10.1.43

तेषां शरीरावयवैः शरीरैश्च विशाम्पते ।
न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम् ॥

10.1.44

तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् ।
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥

10.1.45

तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि ।
तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत् ॥

10.1.46

उपदेशः कृतोऽनेन पक्षिणा मम संयुगे ।
शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः ॥

10.1.47

नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः ।
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥

10.1.48

राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ।
पतङ्गाग्निसमां वृत्तिमास्यायात्मविनाशिनीम् ॥

10.1.49

न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ।
छद्मना तु भवेत्सिद्विः शत्रूणां च क्षयो महान् ॥

10.1.50

तत्र सशयितादर्थाद्योऽर्थो निःसंशयो भवेत् ।
तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः ॥

10.1.51

यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम् ।
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥

10.1.52

निन्दितानि च कर्माणि कुत्सितानि पदेपदे ।
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥

10.1.53

अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः ।
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः ॥

10.1.54

परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः ।
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम् ॥

10.1.55

निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् ।
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥

10.1.56

इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे ।
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥

10.1.57

स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः ।
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥

10.1.58

तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ ।
नोत्तरं प्रतिपद्येतां तत्र युक्तं हिया वृतौ ॥

10.1.59

स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत् ॥

10.1.60

हतो दुर्योधनो राजा एकवीरो मबाहलः ।
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥

10.1.61

एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः ।
पातितो भीमसेनेन एकादशचमूपतिः ॥

10.1.62

वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् ।
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्गता ॥

10.1.63

विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च ।
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥

10.1.64

वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः ।
अनिलेनेरितो घोरो दिशः पूरयतीव ह ॥

10.1.65

अश्वानां हेषमाणानां गजानां चैव बृंहताम् ।
सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥

10.1.66

दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम् ।
रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः ॥

10.1.67

पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् ।
वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे ॥

10.1.68

केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः ।
निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम् ॥

10.1.69

एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः ।
यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे ॥

10.1.70

भवतोस्तु यदि प्रज्ञा न मोहादपचीयते ।
व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc