भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.45

1.45.1

एतस्मिन्नेव काले तु जरत्कारुर्महातपाः ।
चचार पृथिवीं कृत्स्नां यत्रसायन्गृहो मुनिः ॥

1.45.2

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ।
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥

1.45.3

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः ।
सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् ॥

1.45.4

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् ।
तं तन्तुं च शनैराखुमाददानं बिलेशयम् ॥

1.45.5

निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः ।
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥

1.45.6

के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः ।
दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥

1.45.7

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् ।
तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः ॥

1.45.8

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव ।
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः ॥

1.45.9

अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् ।
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥

1.45.10

तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः ।
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम् ॥

1.45.11

अथवापि समग्रेण तरन्तु तपसा मम ।
भवन्तः सर्व एवेह काममेवं विधीयताम् ॥
पितर ऊचुः ।

1.45.12

कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि ।
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥

1.45.13

अस्ति नस्तात तपसः फलं प्रवदतां वर ।
सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥

1.45.14

सन्तानं हि परो धर्मं एवमाह पितामहः ।
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै ॥

1.45.15

येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ।
वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान ॥

1.45.16

शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज ।
यायावरा नाम वयमृषयः संशितव्रताः ॥

1.45.17

लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने ।
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै ॥

1.45.18

अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः ॥

1.45.19

जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ।
नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥

1.45.20

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् ।
न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन ॥

1.45.21

तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् ।
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया ॥

1.45.22

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः ।
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः ॥

1.45.23

कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन ।
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम् ॥

1.45.24

एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः ।
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः ॥

1.45.25

एते नस्तन्तवस्तात कालेन परिभक्षिताः ।
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् ॥

1.45.26

यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः ।
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः ॥

1.45.27

स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ।
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥

1.45.28

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम ।
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥

1.45.29

अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा ।
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः ॥

1.45.30

छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ।
तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत् ॥

1.45.31

तत्सर्वं न समं तात सन्तत्येति सतां मतम् ।
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन ॥

1.45.32

यथा दृष्टमिदं चात्र त्वयाऽख्येयमशेषतः ।
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा ॥

1.45.33

वा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ।
बान्धवानां हितस्येह यथा चात्मकुलं तथा ॥

1.45.34

कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम ।
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc