भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.44

1.44.1

तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् ।
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥

1.44.2

तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः ।
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम् ॥

1.44.3

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् ।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥

1.44.4

ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः ।
भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनिताडितं यथा ॥

1.44.5

ततो नृपे तक्षकतेजसाहते प्रयुज्य सर्वाः परलोकसत्क्रियाः ।
शुचिर्दिजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः ॥

1.44.6

नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः ।
नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः ॥

1.44.7

स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा ।
शशास राज्यं कुरुपुन्गवाग्रजो यथाऽस्य वीरः प्रपितामहस्तथा ॥

1.44.8

ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः ।
सुवर्णवर्माणमुपेत्य काशिप वपुष्टमार्थं वरयाम्प्रचक्रमुः ॥

1.44.9

ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः ।
स चापि तां प्राप्य मुदा युतोऽभव- न्न चान्यनारीषु मनो दधे क्वचित् ॥

1.44.10

सरःसु फुल्लेषु वनेषु चैव प्रसन्नचेता विजहार वीर्यवान् ।
तथा स राजन्यवरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥

1.44.11

वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम् ।
भावेन रामा रमयाम्बभूव तं विहारकालेष्ववरोधसुन्दरी ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc