भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.253

1.253.1

तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत् ।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥

1.253.2

खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः ।
प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥

1.253.3

न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः ।
सञ्छाद्यमाने खे बाणैरस्यता सव्यसाचिना ॥

1.253.4

तक्षकस्तु न तत्रासीन्नागराजो महाबलः ।
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः ॥

1.253.5

अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली ।
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः ॥

1.253.6

न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः ।
मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥

1.253.7

तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ।
निगीर्य सोर्ध्वमक्रामत्सुतं नागी मुमुक्षया ॥

1.253.8

तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः ।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः ॥

1.253.9

तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् ।
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥

1.253.10

तां च मायां तदा दृष्टा घोरां नागेन वञ्चितः ।
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत् ॥

1.253.11

शशाप तं च सन्क्रुद्धो बीभत्सुर्जिह्मगामिनम् ।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि ॥

1.253.12

ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः ।
योधयामास सन्क्रुद्धो वञ्चनां तामनुस्मरन् ॥

1.253.13

देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम् ।
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः ॥

1.253.14

ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् ।
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान् ॥

1.253.15

ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान् ।
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् ॥

1.253.16

वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः ।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् ॥

1.253.17

जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ।
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः ॥

1.253.18

सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम् ।
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः ॥

1.253.19

सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः ।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत् ॥

1.253.20

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः ।
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः ॥

1.253.21

गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा ।
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ ॥

1.253.22

तथैवोरगसङ्घाताः पाण्डवस्य समीपतः ।
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः ॥

1.253.23

तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः ।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम् ॥

1.253.24

ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः ।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः ॥

1.253.25

अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः ।
कृष्णपार्थौ जिघांसन्तः क्रोधसम्मूर्च्छितौजसः ॥

1.253.26

तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम् ।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥

1.253.27

कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः ।
दैत्यदानवसङ्घानां चकार कदनं महत् ॥

1.253.28

अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा ।
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः ॥

1.253.29

ततः शक्रोऽतिसक्रुद्धस्त्रिदशानां महेश्वरः ।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत् ॥

1.253.30

वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत् ।
हतावेताविति प्राह सुरानसुरसूदनः ॥

1.253.31

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् ।
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा ॥

1.253.32

कालदण्डं यमो राजन् गदां चैव धनेश्वरः ।
पाशांश्च तत्र वरुणो विचित्रां च तथाऽशनिम् ॥

1.253.33

स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः ।
ओषधीर्दीप्यमानाश्च जगृहातेऽस्विनावपि ॥

1.253.34

जगृहे च धनुर्धाता मुसलं तु जयस्तथा ।
पर्वतं चापि जग्राह क्रूद्धस्त्वष्टा महाबलः ॥

1.253.35

अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ।
प्रगृह्य परिघं घोरं विचचारार्यमा अपि ॥

1.253.36

मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान् ।
पूषा भगश्च सन्क्रुद्धः सविता च विशाम्पते ॥

1.253.37

आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः ।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः ॥

1.253.38

विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ।
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ ॥

1.253.39

कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ।
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे ॥

1.253.40

युगान्तसमरूपाणि भूतसम्मोहनानि च ।
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ ॥

1.253.41

अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ।
आगच्छतस्ततो देवानुभौ युद्धविशारदौ ॥

1.253.42

व्यताडयेतां सन्क्रुद्धौ शरैर्वज्रोपमैस्तदा ।
असकृद्भग्नसन्कल्पाः सुराश्च बहुशः कृताः ॥

1.253.43

भयाद्रणं परित्यज्य शख्रमेवाभिशिश्रियुः ।
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च ॥

1.253.44

आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः ।
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे ॥

1.253.45

बभूव परमप्रीतो भूयश्चैतावयोधयत् ।
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः ॥

1.253.46

भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ।
तच्छैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः ॥

1.253.47

विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः ।
भूयः संवर्धयामास तद्वर्षं पाकशासनः ॥

1.253.48

सोश्मवर्षं महावेगैरिषुभिः पाकशासनिः ।
विलयं गमयामास हर्षयन्पितरं तथा ॥

1.253.49

तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत् ।
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥

1.253.50

ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः ।
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥

1.253.51

गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ ।
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः ॥

1.253.52

तेनाभिपतता दावं शैलेन महता भृशम् ।
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc