भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.252

1.252.1

तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ ।
दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥

1.252.2

यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः ।
पलायन्तः प्रवीरौ तौ तत्रतत्राभ्यधावताम् ॥

1.252.3

छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः ।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ ॥

1.252.4

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः ।
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः ॥

1.252.5

दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे ।
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे ॥

1.252.6

समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे ।
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः ॥

1.252.7

सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः ।
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे ॥

1.252.8

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले ।
तत्रतत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥

1.252.9

जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना ।
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः ॥

1.252.10

शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः ।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसन्क्षये ॥

1.252.11

कांश्चिदुत्पततः पार्थः शरैः सञ्छिद्य खण्डशः ।
पातयामास विहगान्प्रदीप्ते वसुरेतसि ॥

1.252.12

ते शराचितसर्वाङ्गा निनदन्तो महारवान् ।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः ॥

1.252.13

शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम् ।
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः ॥

1.252.14

वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः ।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥

1.252.15

तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः । ततो जग्मुर्महात्मानः सर्व एव दिवौकसः ।
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम् ॥
देवा ऊचुः ।

1.252.16

किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना ।
कच्चिन्न सन्क्षयः प्राप्तो लोकानाममरेश्वर ॥
वैशम्पायन उवाच ।

1.252.17

तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च ।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥

1.252.18

महता रथबृन्देन नानारूपेण वासवः ।
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः ॥

1.252.19

ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः ।
चोदिता देवराजेन जलदाः खाण्डवं प्रति ॥

1.252.20

असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः ।
ख एव समुशुष्यन्त नकाश्चित्पावकं गताः ॥

1.252.21

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा ।
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु ॥

1.252.22

अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् ।
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc