भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.247

1.247.1

अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे ।
अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः ॥

1.247.2

पुरस्तादेव पौराणां संशयः समजायत ।
जानता वासुदेवेन वासितो भरतर्षभः ॥

1.247.3

लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा ।
सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः ॥

1.247.4

दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना ।
अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम् ॥

1.247.5

सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम् ।
भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम् ॥

1.247.6

इति पौरजनाः सर्वे वदन्ति च समन्ततः । श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् ॥

1.247.7

अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा ।
यियासुः खाण्डवप्रस्थममन्त्रयत केशवः ॥

1.247.8

पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः ।
तथा विपृथुमक्रूरं सन्कर्षणविडूरथौ ॥

1.247.9

मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः ।
सन्कर्षणेन सम्मन्त्र्य ह्यनुज्ञातो महामनाः ॥

1.247.10

सम्प्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः ।
अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम् ॥

1.247.11

ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम् ।
सिंहनादः प्रहृष्टानां क्षणेन समपद्यत ॥

1.247.12

योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा । गजांश्च परमप्रीतः समपद्यन्त वृष्णयः ॥

1.247.13

वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ।
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ॥

1.247.14

सैन्येन महता शौरिरभिगुप्तः समन्ततः ।
तत्र दानपतिः श्रीमाञ्जगाम स महायशाः ॥

1.247.15

अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः ।
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ॥

1.247.16

साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः ।
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः ॥

1.247.17

प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च ।
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ॥

1.247.18

सारणश्च महाबाहुर्गदश्च विदुषां वरः ।
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ॥

1.247.19

आजग्मः खाण्डवप्रस्थमादाय हरणं बहु ।
उपहारं समादाय पृथुवृष्णिपुरोगमाः ॥

1.247.20

प्रययुः सिंहनादेन सुभध्रामवलोककाः । ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः ।
पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन् ॥

1.247.21

ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम् ।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥

1.247.22

ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत् ।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥

1.247.23

सम्मृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम् ।
चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम् ॥

1.247.24

दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना ।
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥

1.247.25

प्रतिपेदे महाबाहुः सह रामेण केशवः ।
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः ॥

1.247.26

सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ।
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ॥

1.247.27

युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे ॥

1.247.28

तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन् ।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥

1.247.29

तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः ।
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम् ॥

1.247.30

गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् ।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥

1.247.31

ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह ।
पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः ॥

1.247.32

हर्षादभिगतौ दृष्ट्वा सन्कर्षणजनार्दनौ ।
बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत ॥

1.247.33

ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत् ।
भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः ॥

1.247.34

प्रवालानि च हाराणि भूषणानि सहस्रशः ।
कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान् ॥

1.247.35

विविधैश्चैव रन्त्नौगैर्दीप्तप्रभमजायत ।
शयनासनयानैश्च युधिष्ठिरनिवेशनम् ॥

1.247.36

ततः प्रीतिकरो यूनां विवाहपरमोत्सवः । भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत ॥

1.247.37

तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम् ।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥

1.247.38

रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः ॥

1.247.39

सहस्रं प्रददौ कृष्मो गवामयुतमेव च ।
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ॥

1.247.40

बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम् ।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम् ॥

1.247.41

तथैवाश्वतरीणां च दान्तानां वातरंहसाम् ।
शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च ॥

1.247.42

स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम् ।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥

1.247.43

सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम् ।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥

1.247.44

पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः ।
ददौ शतसहस्राख्यं कन्याधनमनुत्तमम् ॥

1.247.45

कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः ।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥

1.247.46

गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् ।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥

1.247.47

क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम् ।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥

1.247.48

रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ।
प्रीयमाणो हलधरः सम्बन्धं प्रति मानयन् ॥

1.247.49

स महाधनरत्नौघो वस्त्रकम्बलफेनवान् ।
महागजमहाग्राहः पताकाशैवलाकुलः ॥

1.247.50

पाण्डुसागरमाविद्धः प्रविवेश महाधनः ।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥

1.247.51

प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः ।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥

1.247.52

ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥

1.247.53

तत्रतत्र महानादैरुत्कृष्टतलनादितैः ।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥

1.247.54

एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् ।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति ॥

1.247.55

रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः ।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥

1.247.56

रामः सुभद्रां सम्पूज्य परिष्वज्य स्वसां तदा ।
न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः ॥

1.247.57

पितृष्वसायाश्चरणावभिवाद्य ययौ तदा ।
तस्मिन्काले पृथा प्रीता पूजयामास तं तथा ॥

1.247.58

स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः ।
ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः ॥

1.247.59

वासुदेवस्तु पार्थेन तत्रैव सह भारत । चतुस्त्रिंशदहोरात्रं रममाणो महाबलः ।
उवास नगरे रम्ये शक्रप्रस्थे महात्मना ॥

1.247.60

व्यचरद्यमुनातीरे मृगयां स महायशाः ।
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना ॥

1.247.61

ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा ।
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत् ॥

1.247.62

दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम् ।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥

1.247.63

अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् ।
अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम् ॥

1.247.64

स सात्वत्यामतिरथः सम्बभूव घनञ्जयात् ।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः ॥

1.247.65

यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत ॥

1.247.66

दयितो वासुदेवस्य वाल्यात्प्रभृति चाभवत् ।
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥

1.247.67

जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः ।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥

1.247.68

चतुष्पादं दशविधं धनुर्वेदमरिन्दमः ।
अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम् ॥

1.247.69

विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः ।
क्रियास्वपि च सर्वासु विशेषानभ्यसिक्षयत् ॥

1.247.70

आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना ।
तुतोष पुत्रं सौभद्रं प्रेक्षणाणो धनञ्जयः ॥

1.247.71

सर्वसंहननोपेतं सर्वलक्षणलक्षितम् ।
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥

1.247.72

सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् ।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥

1.247.73

कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽकृतौ ।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥

1.247.74

पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा ।
लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव ॥

1.247.75

युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् ।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥

1.247.76

सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् ।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥

1.247.77

शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम् ।
परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम् ॥

1.247.78

सुतेसोमसहस्रे तु सोमार्कसमतेजसम् ।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥

1.247.79

श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना ।
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत् ॥

1.247.80

शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः ।
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥

1.247.81

ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते ।
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥

1.247.82

एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः ।
अन्वजायन्त राजेन्द्र परस्परहितैषिणः ॥

1.247.83

जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च ।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥

1.247.84

कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः ।
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥

1.247.85

दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः ।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc