भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.246

1.246.1

क्रोशणात्रे पुरस्यासीद्गोष्ठं पार्थस्य शोभनम् ।
तत्रापि यात्वा बीभत्सुर्निविष्टो यदुकन्यया ॥

1.246.2

ततः सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत् ।
गोपिकानां तु वेषेण गच्छ त्वं वृजिनं पुरम् ॥

1.246.3

कामव्याहारिणी कृष्णा रोचतां ते वचो मम ।
दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मयागताम् ॥

1.246.4

अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् ।
यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम् ॥

1.246.5

तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज ।
तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत ॥

1.246.6

एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे ।
सुभद्रावचनं श्रुत्वा सुप्रीतः पाकशासनिः ॥

1.246.7

गोपालान्स समानीय त्वरितो वाक्यमब्रवीत् ।
तरुम्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः ॥

1.246.8

आगच्छन्तु गमिष्यन्त्या भद्रया सह सङ्गताः ।
इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् ॥

1.246.9

एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः । ततस्ताभिः परिवृतां व्रजस्त्रीभिः समन्ततः ॥

1.246.10

सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम् ।
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥

1.246.11

साऽधिकं तेन रूपेण शोभमाना यशस्विनी ।
गोपालिकामध्यगता प्रययौ वृजिनं पुरम् ॥

1.246.12

त्वरिता खाण्डवप्रस्थमाससाद विवेश च । भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥

1.246.13

ववन्दे पृथुताम्राक्षी पृथां भद्रा पितृष्वसाम् ।
तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि ॥

1.246.14

प्रीत्या परमया युक्ता आशीर्भिर्युञ्जताऽतुलाम् ।
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ॥

1.246.15

ववन्दे द्रौपदीं भद्रा प्रेष्याऽहमिति चाब्रवीत् ।
प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च ॥

1.246.16

परिष्वज्यावदत्प्रीत्या निःसपत्नोस्तु ते पतिः ।
वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा ॥

1.246.17

ओजसा निर्मिता बह्वीरुवाच परमाशिषः । तथैव मुदिता भद्रा तामुवाच तथास्त्विति ॥

1.246.18

ततः सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम् ।
अङ्के निवेश्य मुदिता वसुदेवं प्रशस्य च ॥

1.246.19

ततः किलकिलाशब्दः क्षणेन समपद्यत ।
हर्षादानर्तयोधानामासाद्य वृजिनं पुरम् ॥

1.246.20

देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः ।
पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः ॥

1.246.21

गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः ।
ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम् ॥

1.246.22

ततः पुरवरे यूनां पुंसां वाच उदीरिताः ।
अर्जुने प्रतियाति स्म अश्रूयन्त समन्ततः ॥

1.246.23

प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम् । सोऽभिगम्य नरश्रेष्ठो दाशार्हशतसंवृतः ।

1.246.24

पौरैः पुरवरं प्रीत्या परया चाभिनन्दितः ।
प्राप्य चान्तःपुरद्वारमवरुह्य नरर्षभः ॥

1.246.25

ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः ।
स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः ॥

1.246.26

यमाभ्यां वन्दितो हृष्टः सस्वजे तौ ननन्द च ।
ब्राह्मणप्रमुखान्सर्वान्भ्रातृभिः सह सङ्गतः ॥

1.246.27

यथार्हं मानयामास पौरजानपदानपि ।
तत्रस्थान्यनुयातानि तीर्थान्यायतनानि च ॥

1.246.28

निवेदयामास तदा राज्ञे सर्वं स्वनुष्ठितम् ।
भ्रातृभ्यश्चैव सर्वेभ्यः कथयामास भारत ॥

1.246.29

श्रुत्वा सर्वं महाप्राज्ञो धर्मराजो युधिष्ठिरः ।
पुरस्तादेव तेषां तु पूजयामास चार्जुनम् ॥

1.246.30

पाण्डवेन यथार्हं तु पूजार्हेण सुपूजितः ।
न्यविशच्चाभ्यनुज्ञातो राज्ञा तुष्टो यशस्विना ॥

1.246.31

तामदीनां सुपूजार्हां सुभद्रां प्रीतिवर्धिनीम् ।
साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम् ॥

1.246.32

गुरूणां श्वशुराणां च देवराणां तथैव च । सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया ॥

1.246.33

ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।
कुन्ती च परमप्रीता कृष्णा च सततं तथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc