भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.245

1.245.1

उक्तवन्तो यथावीर्यमसकृत्सर्ववृष्णयः ।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंयुतम् ॥

1.245.2

मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः । अतिक्रान्तमतिक्रान्तं न निवर्तेत कर्हिचित् ।
शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम् ॥

1.245.3

नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।
सम्मानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः ॥

1.245.4

अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा ।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥

1.245.5

प्रदानमपि कन्यायाः पशुवत्को नु मन्यते ।
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥

1.245.6

एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः । क्षत्रियाणां तु वीर्येण प्रशस्तं हरणं बलात् ।
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥

1.245.7

उचितश्चैव सम्बन्धः सुभद्रा च शयस्विनी ।
एष चापीदृशः पार्थः प्रसह्य हृतवानतः ॥

1.245.8

भरतस्यान्वये जातं शान्तनोश्च यशस्विनः ।
कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम् ॥

1.245.9

न तं पश्यामि यः पार्थं विजयेत रणे बलात् ।
वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् ॥

1.245.10

अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ।
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ॥

1.245.11

मम शस्त्रं विशेषेण तूणौ चाक्षयसायकौ । योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ।
तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम् ॥

1.245.12

निवर्तयत संहृष्टा ममैषा परमा मतिः ।
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरं ॥

1.245.13

प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः । पितृष्वसायाः पुत्रो मे सम्बन्धं नार्हति द्विषाम् ।
तच्छ्रुत्वा वासुदेवस्य तथा कर्तुं जनाधिप ॥

1.245.14

उद्योगं कृतवन्तस्ते भेरीं सन्नाद्य यादवाः ।
अर्जुनस्तु तदा श्रुत्वा भेरीसन्नादनं महत् ॥

1.245.15

कौन्तेयस्त्वरमाणस्तु सुभद्रामभ्यभाषत ।
आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः ॥

1.245.16

त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः ।
प्रमत्तानशुचीन्मूढान्सुरामत्तान्नराधमान् ॥

1.245.17

वमनं पानशीलांस्तान्करिष्यामि शरोत्तमैः ।
उताहो वा मदोन्मत्तान्नयिष्यामि यमक्षयम् ॥

1.245.18

एवमुक्त्वा प्रियां पार्थो न्यवर्तत महाबलः ।
निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता ॥

1.245.19

एवं मा वद पार्थेति पादयोः पतिता तदा ।
सुभद्रा तु कलिर्जाता वृष्णीनां निधाय च ॥

1.245.20

एवं ब्रुवन्तः पौरास्ते ह्यपवादरताः प्रभो । मम शोकं वर्धयन्ति तस्मान्नाशं न चिन्तये ।
परिवादभयान्मुक्ता त्वत्प्रसादाद्भवाम्यहम् ॥
वैशम्पायन उवाच ।

1.245.21

एवमुक्तस्ततः पार्थः प्रियया भद्रया तदा ।
गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः ॥

1.245.22

स्तितपूर्वं तदाऽभाष्य परिष्वज्य प्रियां तदा ।
उत्थाप्य च पुनः पार्थो याहि याहीति चाब्रवीत् ॥

1.245.23

ततः सुभद्रा त्वरिता रश्मीन्सन्गृह्य पाणिना ।
चोदयामास जवनाञ्शीग्रमश्वान्कृतत्वरा ॥

1.245.24

ततस्तु कृतसन्नाहा वृष्णिवीराः समाहिताः ।
प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः ॥

1.245.25

राजमार्गमनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् ।
प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च ॥

1.245.26

अर्जुनस्य शरान्दृष्ट्वा विस्मयं परमं गताः ।
केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः ॥

1.245.27

अतीत्य तं रैवतकं श्रुत्वा तु विपृथोर्वचः ।
अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः ॥

1.245.28

श्रुत्वा दीर्घं गतं पार्थं न्यवर्तन्त महारथाः ।
पुरोद्यानमतिक्रम्य विशालं च गिरिव्रजम् ॥

1.245.29

सानुमुज्जयिनीं चैव वनान्युपवनानि च ।
पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च ॥

1.245.30

प्राप्य धेनुमतीतीर्थमश्वरोधसरः प्रति ।
प्रेक्षावर्तं ततः शैलमम्बुदं च नगोत्तमम् ॥

1.245.31

आराच्छृङ्गमथासाद्य तीर्णः करवतीं नदीम् ।
प्राप्य साल्वेयराष्ट्राणि निषधानप्यतीत्य च ॥

1.245.32

देवापृथुपुरं पश्यन् सर्वतः सुसमाहितः ।
तमतीत्य महाबाहुर्देवारण्यमपश्यत ॥

1.245.33

पूजयामासुरायान्तं देवारण्ये महर्षयः ।
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ॥

1.245.34

अतीत्य च तदा पार्थः सुभद्रासारथिस्तदा ।
कौरवं विषयं प्राप्य विशोकः समपद्यत ॥

1.245.35

सोदर्याणां महाबाहुः सिंहाशयमिवाशयम् ।
दूरादुपवनोपेतं समन्तात्सलिलावृतम् ॥

1.245.36

भद्रया मुदितो जिष्णुर्ददर्श वृजिनं पुरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc