भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.239

1.239.1

ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ ।
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम ॥

1.239.2

तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः ।
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥

1.239.3

प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः ।
स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः ॥

1.239.4

वादित्राणि च तत्रान्ये वादकाः समवादयन् ।
ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः ॥

1.239.5

अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम् ।
यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः ॥

1.239.6

पौराश्च पादचारेण यानैरुच्चावचैस्तथा ।
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥

1.239.7

ततो हलधरः क्षीबो रेवतीसहितः प्रभुः ।
अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत ॥

1.239.8

तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् ।
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥

1.239.9

रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ ।
दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव ॥

1.239.10

अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः ।
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥

1.239.11

सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ ।
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः ॥

1.239.12

एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् ।
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा ॥

1.239.13

वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः । दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत ॥

1.239.14

चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते ।
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥

1.239.15

तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम् ।
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥

1.239.16

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत ।
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥

1.239.17

अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत ।
वनेचरस्य किमिदं कामेनालोड्यते मनः ॥

1.239.18

ममैषा भगिनी पार्थ सारणस्य सहोदरी । सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता ।
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥
अर्जुन उवाच ।

1.239.19

दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।
रूपेण चैषा सम्पन्ना कमिवैषा न मोहयेत् ॥

1.239.20

कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् ।
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥

1.239.21

प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन ।
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत् ॥
वासुदेव उवाच ।

1.239.22

स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ ।
स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥

1.239.23

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते ।
विवाहहेतुः शूराणामिति धर्मविदो विदुः ॥

1.239.24

स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम । यतिरूपधरस्तं तु यथा कालविपाकता ।
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥
वैशम्पायन उवाच ।

1.239.25

ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् ।
शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा ॥

1.239.26

धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै ।
श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः ॥

1.239.27

भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते ।
इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः ॥

1.239.28

अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम् ।
इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc