भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.238

1.238.1

सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च ।
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥

1.238.2

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च ।
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥

1.238.3

चिन्तयामास रात्रौ तु गदेन कथितं पुरा ।
सुभद्रायाश्च माधुर्यरूपसम्पद्गुणानि च ॥

1.238.4

प्राप्तुमं तां चिन्तयामास कोऽत्रोपायो भवेदिति ।
वेषवैकृत्यमापन्नः परिव्राजकरूपधृत् ॥

1.238.5

कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात् ।
भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान् ॥

1.238.6

येनकेनाप्युपायेन प्रविश्य च गृहं महत् ।
दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम् ॥

1.238.7

वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम् ।
एवं विनिश्चयं कृत्वा दीक्षितो वै तदाऽभवत् ॥

1.238.8

त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः ।
योगभारं वहन्पार्थो वटवृक्षस्य कोटरम् ॥

1.238.9

प्रविशंश्चैव बीभत्सुर्वृष्टिं वर्षति वासवे ।
चिन्तयामास देवेशं केशवं क्लेशनाशनम् ॥

1.238.10

केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान् ।
शयानः शयने दिव्ये सत्यभामासहायवान् ॥

1.238.11

केशवः सहसा राजञ्जहाय च ननन्द च ।
पुनः पुनः सत्यभामा चाब्रवीत्पुरुषोत्तमम् ॥

1.238.12

भगवंश्चिन्तयाविष्टः शयने शयितः सुखम् ।
भवान्बहुप्रकारेण जहास च पुनः पुनः ॥

1.238.13

श्रोतव्यं यदि वा कृष्ण प्रसादो यदि ते मयि ।
वक्तुमर्हसि देवेश तच्छ्रोतुं कामयाम्यहम् ॥
श्रीभगवानुवाच ।

1.238.14

पितृष्वसुर्यः पुत्रो मे भीमसेनानुजोऽर्जुनः ।
तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा ॥

1.238.15

तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः ।
सुभध्रां चिन्तयामास रूपेणाप्रतिमां भुवि ॥

1.238.16

चिन्तयेन्नेव तां भद्रां यतिरूपधरोऽर्जुनः ।
यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम् ॥

1.238.17

येनकेनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम् ।
वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम् ॥

1.238.18

एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः ।
छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे ॥

1.238.19

योगभारं वहन्नेव मानसं दुःखमाप्तवान् ।
एतदर्थं विजानीहि हसन्तं मां मुदा प्रिये ॥

1.238.20

भ्रातरं तव पश्येति सत्यभामां व्यसर्जयत् । तत उत्थाय शयनात्प्रस्थितो मधुसूदनः ॥

1.238.21

प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् ।
तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः ॥

1.238.22

चाराणां चैव वचनादेकाकी स जनार्दनः ।
तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः ॥

1.238.23

ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥

1.238.24

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने ।
आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥

1.238.25

ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत ।
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत ॥

1.238.26

ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा ।
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥

1.238.27

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ ।
महीधरं रैवतकं वासायैवाभिजग्मतुः ॥

1.238.28

पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् ।
पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम् ॥

1.238.29

प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः ।
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥

1.238.30

अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः ।
सत्कृतं शनं दिव्यमभ्यगच्छन्महामतिः ॥

1.238.31

ततस्तत्र महाबाहुः शयानः शयने शुभे । तीर्थानां पल्वलानां च पर्वतानां च दर्शनम् ।
आपगानां वनानां च कथयामास सात्वते ॥

1.238.32

एवं स कथयन्नेव निद्रया जनमेजय ।
कौन्तेयोऽपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे ॥

1.238.33

मधुरेणैव गीतेन वीणाशब्देन चैव ह ।
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तता ॥

1.238.34

स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः ।
वार्ष्णेयं समनुज्ञाप्य तत्र वासमरोचयत् ॥

1.238.35

तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह । यतिरूपधरं पार्थं विसृज्य सहसा हरिः ।
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥

1.238.36

अलङ्कृता द्वारका तु बभूव जनमेजय ॥

1.238.37

दिदृक्षन्तश्च गोविन्दं द्वारकावासिनो जनाः ।
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥

1.238.38

क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः । कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः ॥

1.238.39

अवलोकेषु नारीणां सहस्राणि शतानि च ।
भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥

1.238.40

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः ।
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥

1.238.41

कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः ।
समानवयसः सर्वानाश्लिष्य स पुनःपुनः ॥

1.238.42

कृष्णः स्वभवनं रम्यं प्रविवेश महाबलः ।
प्रभासादागतं देव्यः सर्वाः कृष्णमपूजयन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc