भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.218

1.218.1

सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा ।
उवाच वचनं काले कालज्ञः सर्वकर्मणाम् ॥

1.218.2

नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् ।
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति ॥

1.218.3

द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः ।
द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति ॥

1.218.4

सम्प्रयाणासनाभ्यां तु कर्शनेन तथैव च ।
नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः ॥

1.218.5

अवमर्दनकालोऽत्र मतश्चिन्तयतो मम ।
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः ॥

1.218.6

भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः ।
प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि ॥

1.218.7

प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् ।
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् ॥

1.218.8

घुष्यतां राजमार्गेषु परेषां यो हनिष्यति ।
नागमश्वं पदातिं वा दानमानं स लप्स्यति ॥

1.218.9

नागे दशसहस्राणि पञ्च चाश्वपदातिषु ।
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः ॥

1.218.10

यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः ।
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः ॥

1.218.11

प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः ।
यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम् ॥

1.218.12

अनुलोमाश्च नो वाताः सततं मृगपक्षिणः ।
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च ॥
वैशम्पायन उवाच ।

1.218.13

ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः ।
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे ॥

1.218.14

न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः ।
यथा परिरपुघ्नानां प्रसभं युद्ध एव च ॥

1.218.15

वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः ।
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः ॥

1.218.16

स राजसागरो भीमो भीमघोषप्रदर्शनः ।
अभिदुद्राव वेगेन पुरं तदपसव्यतः ॥

1.218.17

तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् ।
समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः ॥

1.218.18

ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः । निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र

1.218.19

धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः ।
चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान् ॥

1.218.20

पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः ।
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः ॥

1.218.21

पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः ।
स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः ॥

1.218.22

चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः ।
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् ॥

1.218.23

द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् ।
तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः ॥

1.218.24

बलयोः सम्प्रसरतोः सरितां स्रोतसोरिव ।
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः ॥

1.218.25

ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे ।
उत्कृष्टभेरीनिनदे सम्प्रवृत्ते महारवे ॥

1.218.26

अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः ।
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः ॥

1.218.27

धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः ।
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् ॥

1.218.28

नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च ।
निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे ॥

1.218.29

आविशत्परमो हर्षः प्रमोदश्च जयं प्रति ।
सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम् ॥

1.218.30

ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम् ।
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ ॥

1.218.31

जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः ।
अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ ॥

1.218.32

जयद्रथसुतं तत्र जघान पितुरन्तिके ।
वृषसेनादवरजं सुदामानं धनञ्जयः ॥

1.218.33

कर्णपुत्रं महेष्वासं रथनीडादपातयत् ।
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ ॥

1.218.34

नामृष्येतां महाबाहू प्रहारमिव सद्गजौ ।
तौ जग्मतुरसम्भ्रान्तौ फल्गुनस्य रथम्प्रति ॥

1.218.35

प्रतिमुक्ततलत्राणौ शपमानौ परस्परम् ।
सन्निपातस्तयोरासीदतिघोरो महामृधे ॥

1.218.36

वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे ।
त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ ॥

1.218.37

ततः किलिकिलाशब्दः कुरूणामभवत्तदा ।
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् ॥

1.218.38

निमेषान्तरमात्रेण रथमश्वैरयोजयत् ।
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ ॥

1.218.39

सौबलः सौमदत्तिश्च समेयातां परन्तपौ ।
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः ॥

1.218.40

अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः ।
तैर्निरुद्धो न सन्त्रासं जगाम समितिञ्जयः ॥

1.218.41

पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी ।
तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः ॥

1.218.42

सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् ।
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः ॥

1.218.43

चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः ।
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि ॥

1.218.44

व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः ।
विधनुष्कं विकवचं विरथं च समीक्ष्य तम् ॥

1.218.45

अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः ।
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ ॥

1.218.46

तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः ।
रथध्वजपताकाश्च सवर्मन्तरधीयत ॥

1.218.47

तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् ।
रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः ॥

1.218.48

तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः ।
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः ॥

1.218.49

स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान् ।
त्रीञ्शरान्सन्दधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः ॥

1.218.50

तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् ।
अपोवाह रथाच्चाशु सूतः परपुरञ्जयम् ॥

1.218.51

ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम् ।
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु ॥

1.218.52

तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम् ।
गिरा मधुरया चापि समाश्वासयतासकृत् ॥

1.218.53

धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः ।
धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम् ॥

1.218.54

ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः ।
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् ॥

1.218.55

ततः सन्ग्रामशिरसि ददर्श विपुलद्रुमम् ।
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् ॥

1.218.56

महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् ।
तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि ॥

1.218.57

अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान् ।
भीमसेनभयार्तानि फल्गुनाभिहतानि च ॥

1.218.58

न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम् ।
तानि सम्भ्रान्तयोधानि श्रान्तवाजिगजानि च ॥

1.218.59

दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः ।
तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः ॥

1.218.60

नानुसस्रुर्न चाजघ्नुर्नोचुः किञ्चिच्च दारुणम् ।
स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः ॥

1.218.61

परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः ।
मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह ॥

1.218.62

यावत्तद्युद्धमभवन्महद्देवासुरोपमम् ।
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः ॥

1.218.63

सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम् ।
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् ॥

1.218.64

शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि ।
तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन् ॥

1.218.65

ततः प्रयाता राजानः सर्व एव यथागतम् ।
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा ॥

1.218.66

प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः ।
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये ॥

1.218.67

तेऽचिरेणैव कालेन सम्प्राप्ता यादवीं पुरीम् ।
ऊचुः सन्कर्षणोपेन्द्रौ वचनं वचनक्षमौ ॥

1.218.68

कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः ।
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात् ॥

1.218.69

समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम् ।
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः ॥

1.218.70

तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः ।
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः ॥

1.218.71

तत उद्योजयामास माधवश्चतुरङ्गिणीम् ।
सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति ॥

1.218.72

ततः सन्कर्षणश्चैव केशवश्च महाबलः ।
यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः ॥

1.218.73

पितृष्वसारं सम्पूज्य नत्वा चैव तु यादवीम् ।
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि ॥

1.218.74

पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान् ।
न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना ॥

1.218.75

यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः ।
रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc