भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.217

1.217.1

ततो राज्ञां चैरराप्तैः प्रवृत्तिरुपनीयत ।
पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ॥

1.217.2

येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना ।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥

1.217.3

यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली ।
त्रासयामास सन्क्रुद्धो वृक्षेण पुरुषान्रणे ॥

1.217.4

न चास्य सम्भ्रमः कश्चिदासीत्तत्र महात्मनः ।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥

1.217.5

योऽसावत्यक्रमीद्युध्यन्युद्धे दुर्योधनं तथा ।
स राजा पाण्डवश्रेष्ठः पुण्यभाग्बुद्धिवर्धनः ॥

1.217.6

दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीपवत् । तौ यमौ वृत्तसम्पन्नौ सम्पन्नबलविक्रमौ ॥

1.217.7

ब्रह्मरूपधराञ्श्रुत्वा प्रशान्तान्पाण्डुनन्दनान् ।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥

1.217.8

पौरा हि सर्वे राजन्याः समपद्यन्त विस्मिताः । सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ॥

1.217.9

सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी । पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः ॥

1.217.10

धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै ॥

1.217.11

धार्मिकान्वृत्तसम्पन्नान्मातुः प्रियहिते रतान् ।
यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति ॥

1.217.12

ततः स्वयंवरे वृत्ते धार्तराष्ट्राश्च भारत ।
मन्त्रयन्ति ततः सर्वे कर्णसौबलदूषिताः ॥
शकुनिरुवाच ।

1.217.13

कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः ।
उत्सादनीयाः कौन्तेयाः सर्वक्षत्रस्य मे मताः ॥

1.217.14

एवं पराजिताः सर्वे यदि यूयं गमिष्यथ ।
अकृत्वा संविदं काञ्चिन्मनस्तप्स्यत्यसंशयम् ॥

1.217.15

अयं देशश्च कालश्च पाण्डवाहरणाय नः ।
न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ ॥

1.217.16

यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम् ।
सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम ॥

1.217.17

यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः ।
चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् ॥

1.217.18

एकीभावं गतो राज्ञा द्रुपदेन महात्मना ।
दुराधर्षतरा राजन्भविष्यन्ति न संशयः ॥

1.217.19

यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः ।
तावदेव व्यवस्यामः पाण्डवानां वधं प्रति ॥

1.217.20

मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव ।
पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम् ॥

1.217.21

तेषामिहोपयातानामेषां तु चिरवासिनाम् ।
अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव ॥

1.217.22

हनध्वं प्रगृहीतानि बलानि बलिनां वराः ।
यावन्नः कुरुसेनायां पतन्ति पतगा इव ॥

1.217.23

तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम् ।
एतन्मम मतं चैव प्राप्तकालं नरर्षभ ॥
वैशम्पायन उवाच ।

1.217.24

शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः ।
सोमदत्तिरिदं वाक्यं जगाद परमं ततः ॥

1.217.25

प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च ।
तथा देशं च कालं च षड्विधान्स नयोद्गुणान् ॥

1.217.26

स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् ।
प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम् ॥

1.217.27

ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान् ।
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् ॥

1.217.28

वपुषा हि तु भूतानां नेत्राणि हृदयानि च ।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् ॥

1.217.29

न तु केवलदैवेन प्रजा भावेन भेजिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥

1.217.30

न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती ॥

1.217.31

तानेवन्गुणसम्पन्नान्सम्पन्नान्राजलक्षणैः ।
न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात् ॥

1.217.32

प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला ।
तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति ॥

1.217.33

मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः ।
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः ॥

1.217.34

अमित्रांश्च ततो जेतुनं न रोषेणेति मे मतिः ।
परिक्रीय धनैः शत्रुं मित्राणि च बलानि च ॥

1.217.35

मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः ।
अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः ॥

1.217.36

येषामर्थे सदा युक्तौ कृष्णसन्कर्षणावुभौ ।
श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम् ॥

1.217.37

संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम् ।
गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि ॥

1.217.38

गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम् ।
तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः ॥

1.217.39

युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः ।
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् ॥

1.217.40

दृढप्राकारनिर्यूहं शतघ्नीशतसन्कुलम् ।
ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः ॥

1.217.41

प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः ।
तदेतन्नरगर्भेण पाण्डरेण विराजते ॥

1.217.42

सालेनानेकतालेन सर्वतः संवृतं पुरम् ।
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः ॥

1.217.43

दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये ।
प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः ॥

1.217.44

उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः ।
तस्मात्सन्न्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः ॥

1.217.45

स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम । एतन्मम मतं सर्वैः क्रियतां यदि रोचते ।
एतद्धि सुकृतं मन्ये क्षेमं चापि महीभिताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc