भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.214

1.214.1

पुरा वै नैमिशारण्ये देवाः सत्रमुपासते ।
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥

1.214.2

ततो यमो दीक्षितस्तत्र राज- न्नामारयत्कञ्चिदपि प्रजानाम् ।
ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणप्रहीणाः ॥

1.214.3

सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रा वसवोऽथाश्विनौ च ।
प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तथाऽन्ये ॥

1.214.4

ततोऽब्रुवँल्लोकगुरुं समेता भयात्तीव्रान्मानुषाणां विवृद्ध्या ।
तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम् ॥
पितामह उवाच ।

1.214.5

किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः ।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति ॥
देवा ऊचुः ।

1.214.6

मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन ।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥
श्रीभगवानुवाच ।

1.214.7

वैवस्वतो व्यापृतः सत्रहेतो- स्तेन त्विमे न म्रियन्ते मनुष्याः ।
तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः ॥

1.214.8

वैवस्वतस्यैव तनुर्विभक्ता वीर्येण युष्माकमुत प्रवृद्धा ।
सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यं भविता नरेषु ॥
व्यास उवाच ।

1.214.9

ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते ।
समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम् ॥

1.214.10

दृष्ट्वा च तद्विस्मितास्ते बभूवु- स्तेषामिन्द्रस्तत्र शूरो जगाम ।
सोऽपश्यद्योषामथ पावकप्रभां यत्र देवी गङ्गा सततं प्रसूता ॥

1.214.11

सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत् ।
तस्याश्रुबिन्दुः पतितो जले य- स्तत्पद्ममासीदथ तत्र काञ्चनम् ॥

1.214.12

तदद्भुतं प्रेक्ष्य वज्री तदानी- मपृच्छत्तां योषितमन्तिकाद्वै ।
का त्वं भद्रे रोदिषि कस्य हेतो- र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि ॥
स्त्र्युवाच ।

1.214.13

त्वं वेत्स्यसे मामिह याऽस्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या ।
आगच्छ राजन्पुरतो गमिष्ये द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम् ॥
व्यास उवाच ।

1.214.14

तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् ।
सिद्धासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥

1.214.15

तमब्रवीद्देवराजो ममेदं त्वं विद्धि विद्वन्भुवनं वशे स्थितम् ।
ईशोऽहस्मीति समन्युरब्रवी- द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥

1.214.16

क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहाय शक्रं च शैरुदैक्षत ।
संस्तम्भितोऽभूदथ देवराज- स्तेनेक्षितः स्थाणुरिवावतस्थे ॥

1.214.17

यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच ।
आनीयतामेष यतोऽहमारा- न्नैनं दर्पः पुनरप्याविशेत ॥

1.214.18

ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् ।
तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथञ्चित् ॥

1.214.19

निवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् ।
छिद्रस्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः ॥

1.214.20

स तद्विवृत्य विवरं महागिरे- स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श ।
स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे ॥

1.214.21

ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच ।
दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥

1.214.22

उक्तस्त्वेवं विभुना देवराजः प्रावेपताऽर्तो भृशमेवाभिषङ्गात् ।
स्रस्तैरङ्गैरनिलेनेव नुन्न- मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥

1.214.23

स प्राञ्जलिर्वै वृषवाहनेन प्रवेपमानः सहसैवमुक्तः ।
उवाच देवं बहुरूपमुग्र- मद्याशेषस्य भुवनस्य त्वं भवाद्यः ॥

1.214.24

तमब्रवीदुग्रवर्चाः प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति ।
एतेऽप्येवं भवितारः पुरस्ता- त्तस्मादेतां दरीमाविश्य शेष्य ॥

1.214.25

एषा भार्या भविता वो न संशयो योनिं सर्वे मानुषीमाविशध्वम् ।
तत्र यूयं कर्म कृत्वाऽविषह्यं बहूनन्यान्निधनं प्रापयित्वा ॥

1.214.26

अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा शूरान्सर्वानाहवे संविजित्य ।
आगन्तारः पुनरेवेन्द्रवलोकं स्वकर्मणा पूर्वचितं महार्हम् । सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थयुक्तम् ॥
पूर्वेन्द्रा ऊचुः ।

1.214.27

गमिष्यामो मानुषं देवलोका- द्दुराधरो विहितो यत्र मोक्षः ।
देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च ॥
व्यास उवाच ।

1.214.28

एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह ।
वीर्येणाहं पुरुषं कार्यहेतो- र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥

1.214.29

विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान् ।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः ॥

1.214.30

तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् ।
तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु ॥

1.214.31

तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् ।
अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपम् ॥

1.214.32

स चापि तद्व्यदधात्सर्वमेव ततः सर्वे सम्बभूवुर्धरण्यमाम् ।
नरं तु देवं विबुधप्रधान- मिन्द्राज्जिष्णुं पञ्चमं कल्पयित्वा । स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् ॥

1.214.33

तौ चापि केशौ विशतां यदूनां कुले स्त्रियौ देवकीं रोहिणीं च ।
तयोरेको बलदेवो बभूव योऽसौ श्वेतस्य देवस्य केशः । कृष्णो द्वितीयः केशवः सम्बभूव केशो योऽसौ वर्णतः कृष्ण उक्तः ॥

1.214.34

ये ते पूर्वं शक्ररूपा निबद्धा- स्तस्यां दर्यां पर्वतस्योत्तरस्य ।
इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची ॥

1.214.35

एवमेते पाण्डवाः सम्बभूवु- र्ये ते राजन्पूर्वमिन्द्रा बभूवुः ।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा ॥

1.214.36

कथं हि स्त्री कर्मणा ते महीतला- त्समुत्तिष्ठेदन्यतो दैवयोगात् ।
यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः कोशमात्रात्प्रवाति ॥

1.214.37

इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च ।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥
वैशम्पायन उवाच ।

1.214.38

ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः ।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान् राजाऽपश्यत्पूर्वदेहैर्यथावत् ॥

1.214.39

ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् ।
बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श ॥

1.214.40

दिव्यैर्वस्त्रैरजोभिः सुगन्धै- र्माल्यैश्चाग्र्यैः शोभमानानतीव ।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा- नादित्यान्वा सर्वगुणोपपन्नान् ॥

1.214.41

तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा- त्र्शक्रात्मजं चेन्द्ररूपं निशम्य ।
प्रीतो राजा द्रुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम् ॥

1.214.42

तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात्सोमवह्निप्रकाशाम् ।
योग्यां तेषां रूपतेजोयशोभिः पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः ॥

1.214.43

स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य ।
नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् ॥
व्यास उवाच ।

1.214.44

इदं चापि पुरावृत्तं तन्निबोध च भूमिम ।
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि ॥

1.214.45

नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः ।
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः ॥

1.214.46

साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान् ।
तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः ॥

1.214.47

नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः ।
अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः ॥

1.214.48

एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे ।
अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान् ॥

1.214.49

वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता ।
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा ॥

1.214.50

यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः ।
बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः ॥

1.214.51

तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा ।
भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता ॥

1.214.52

पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत ।
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा ॥

1.214.53

पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि ।
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम ॥

1.214.54

साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः ।
तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम ॥

1.214.55

एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता । तथैव द्रुपदैषा ते सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥
व्यास उवाच ।

1.214.56

आसीत्तपोवन्ने काचिदृषेः कन्या महात्मनः ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥

1.214.57

तोषयामास तपसा सा किलोग्रेण शङ्करम् ।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥

1.214.58

सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥

1.214.59

ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥

1.214.60

सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर ॥

1.214.61

तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः ॥

1.214.62

तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते ।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति ॥

1.214.63

द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥

1.214.64

सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि ।
मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती ॥

1.214.65

एतद्देवरहस्यं ते श्रावितं राजसत्तम । नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः ॥

1.214.66

स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे ।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥

1.214.67

सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा ।
सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc