भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.213

1.213.1

ब्रूहि तत्कारणं येन ब्रह्मन्नालायनी शुभा ।
जाता ममाध्वरे कृष्मा सर्ववेदविदां वर ॥
व्यास उवाच ।

1.213.2

शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः ।
यदर्थं चैव सम्भूता तव गेहे यशस्विनी ॥

1.213.3

हन्त त कथयिष्यामि कृष्मायाः पौर्वदेहिकम् ।
इन्द्रसेनेति विख्याता पुरा नालायनी शुभा ॥

1.213.4

मौद्गल्यस्य पतिमासाद्य चचार विगतज्वरा ।
मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया ॥

1.213.5

संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा ।
ततः कदाचिद्धर्मात्मा तृप्तः कामैर्व्यरज्यत ॥

1.213.6

अन्विच्छन्परमं धर्मं ब्रह्मयोगपरोऽभवत् । उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि ।
मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा ॥
नालायन्युवाच ।

1.213.7

प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि ।
अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात् ॥
मौद्गल्य उवाच ।

1.213.8

यस्मात्त्वं मामनिःशङ्का ह्यवक्तव्यं भाषसे ।
आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम ॥

1.213.9

भविष्यसि नृलोके त्वं राजपुत्री यशस्वि ।
पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः ॥

1.213.10

भवितारस्तत्र तव पतयः पञ्च विप्लुताः ।
तैः सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि ॥
वैशम्पायन उवाच ।

1.213.11

सैवं शप्ता तु विमना वनं प्रागाद्यशस्विनी ।
भोगैरतृप्ता देवेशं तपसाऽराधयत्तदा ॥

1.213.12

निराशीर्मारुताहारा निराहारा तथैव च ।
अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत् ॥

1.213.13

तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम् ।
वचं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः ॥

1.213.14

भविष्यति परं जन्म भविष्यति वराङ्गना ।
भविष्यन्ति परं भद्रे पतयः पञ्च विश्रुताः ॥

1.213.15

महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः ।
तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि ॥
स्त्र्युवाच ।

1.213.16

एकः खलु मया भर्ता वृतः पञ्च त्विमे कथम् ।
एको भवति नैकस्या बहवस्तद्ब्रवीहि मे ॥
महेश्वर उवाच ।

1.213.17

पञ्चकृत्वस्त्वया चोक्तः पतिं देहीत्यहं पुनः ।
पञ्चते पतयो भद्रे भविष्यन्ति सुखावहाः ॥
स्त्र्युवाच ।

1.213.18

धर्म एकः पतिः स्त्रीणां पूर्वमे प्रकल्पितः ।
बहुपत्नीकता पुंसो धर्मश्च बहुभिः कृतः ॥

1.213.19

स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः सदा ।
सहधर्मचरी भर्तुरेका एकस्य चोच्यते ॥

1.213.20

एको हि भर्ता नारीणां कौमार इति लौकिकः ।
आपत्सु च नियोगेन भर्तुर्नार्याः परः स्मृतः ॥

1.213.21

गच्छेत न तृतीयं तु तस्या निष्कृतिरुच्यते ।
चतुर्थे पतिता नारी पञ्चमे वर्धकी भवेत् ॥

1.213.22

एवं गते धर्मपथे न वृणे बहुपुंस्कताम् ।
अलोकाचरितात्त्समात्कथं मुच्येय सङ्करात् ॥
महेश्वर उवाच ।

1.213.23

अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे ।
सकृदुक्तं त्वया नैतन्नाधर्मस्ते भविष्यति ॥
स्त्र्युवाच ।

1.213.24

यदि मे पतयः पञ्च रतिमिच्छामि तैर्मिथः ।
कौमारं च भवेत्सर्वैः सन्गमे सन्गमे च मे ॥

1.213.25

पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा ।
भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत् ॥
रुद्र उवाच ।

1.213.26

रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम् ।
भोगानाप्स्यसि सिद्धिं च योगेन च महत्त्वताम् ॥

1.213.27

अन्यदेहान्तरे चैव रूपभाग्यगुणान्विता ।
पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि ॥

1.213.28

गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे ।
तमानय ममाभ्याशं सुरराजं शुचिस्मिते ॥

1.213.29

इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम् ।
जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc