भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.19

1.19.1

अथावरणमुख्यानि नानाप्रहरणानि च ।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥

1.19.2

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् ।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥

1.19.3

ततो देवगणाः सर्वे पपुस्तदमृतं तदा ।
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ॥

1.19.4

पाययत्यमृतं देवान्हरौ बाहुबलान्नरः । निरोधयति चापेन दूरीकृत्य धनुर्धरान् ।
ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः; ॥

1.19.5

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् ।
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥

1.19.6

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा ।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥

1.19.7

ततो भगवता तस्य शिरश्छिन्नमलन्कृतम् ।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥

1.19.8

तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत् । चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥

1.19.9

चक्रच्छिन्नं खमुत्पत्य ननादातिभयन्करम् ।
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले ॥

1.19.10

त्रयोदश सहस्राणि चतुरश्रं समन्ततः ।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम् ॥

1.19.11

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै ।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥

1.19.12

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः ।
नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत् ॥

1.19.13

ततः प्रवृत्तः सन्ग्रामः समीपे लवणाम्भसः ।
सुराणामसुराणां च सर्वघोरतरो महान् ॥

1.19.14

प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥

1.19.15

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु ।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥

1.19.16

छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा ॥

1.19.17

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः ।
अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥

1.19.18

आहाकारः समभवत्तत्र तत्र सहस्रशः ।
अन्योन्यञ्छिन्दतां शस्त्रैरादित्ये लोहितायति ॥

1.19.19

परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः ।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥

1.19.20

छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च ।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥

1.19.21

एवं सुतुमुले युद्धे वर्तमाने महाभये ।
नरनारायणौ देवौ समाजग्मतुराहवम् ॥

1.19.22

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥

1.19.23

ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम् ।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम् ॥

1.19.24

तदागतं ज्वलितहुताशनप्रभं भयन्करं करिकरबाहुरच्युतः ।
मुमोच वै प्रबलवदुग्रवेगवा- न्महाप्रभं परनगरावदारणम् ॥

1.19.25

तदन्तकज्वलनसमानवर्चसं पुनःपुनर्न्यपतत वेगवत्तदा ।
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे ॥

1.19.26

दहत्क्वचिज्ज्वलन इवावलेलिह- त्प्रसह्य तानसुरगणान्न्यकृन्तत ।
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत् ॥

1.19.27

तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा ।
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्यह ॥

1.19.28

अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः ।
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः ॥

1.19.29

ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः ।
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते ॥

1.19.30

नरस्ततो वरकनकाग्रभूषणै- र्महेषुभिर्गगनपथं समावृणोत् ।
विदारयन्गिरिशिखराणि पत्रिभि- र्महाभयेऽसुरगणविग्रहे तदा ॥

1.19.31

ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः ।
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य ते ॥

1.19.32

ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः ।
विनाद्य खं दिवमपि चैव सर्वश- स्ततो गताः सलिलधरा यथागतम् ॥

1.19.33

ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम् ।
ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc