भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.18

1.18.1

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलन्कृतम् ।
मन्दरं पर्वतवरं लताजालसमाकुलम् ॥

1.18.2

नानाविहन्गसन्घुष्टं नानादंष्ट्रिसमाकुलम् ।
किन्नरैरप्सरोभिश्च देवैरपि च सेवितम् ॥

1.18.3

एकादश सहस्राणि योजनानां समुच्छ्रितम् ।
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥

1.18.4

तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा ।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥

1.18.5

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥
सौतिरुवाच ।

1.18.6

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः ॥

1.18.7

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥

1.18.8

अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥

1.18.9

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम् ॥

1.18.10

अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः ।
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥

1.18.11

ऊचुश्च कूर्मराजानमकूपारे सुरासुराः ।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति ॥

1.18.12

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत् ॥

1.18.13

मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम् । देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।
अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः ॥

1.18.14

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ॥

1.18.15

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ।
अनन्तो भगवान्देवो यतो नारायणः स्थितः ॥

1.18.16

वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः । शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन् ॥

1.18.17

वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥

1.18.18

वासुकेर्मथ्यमानस्य निःसृतेन विषेण च ।
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन ॥

1.18.19

मथनान्मन्दरेणाथ देवदानवबाहुभिः ।
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् ॥

1.18.20

देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह ।
अपाक्रामंस्ततो भीता विषादमगमंस्तदा ॥

1.18.21

ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुन्गवैः ।
मथ्यमानेऽमृते जातं विषं कालानलप्रभम् ॥

1.18.22

तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह ।
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् ॥

1.18.23

त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम् ।
तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ ॥

1.18.24

तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः ।
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया ॥

1.18.25

अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् ।
कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया ॥

1.18.26

यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः ।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा ॥

1.18.27

देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा ।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः ॥

1.18.28

वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः । सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥

1.18.29

ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः ।
अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ॥

1.18.30

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन् ॥

1.18.31

बभूवात्र महान्नादो महामेघरवोपमः ।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥

1.18.32

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥

1.18.33

वारुणानि च भूतानि विविधानि महीधरः ।
पातालतलवासीनि विलयं समुपानयत् ॥

1.18.34

तस्मिंश्च भ्राम्यमाणेऽद्रौ सन्घृष्यन्तः परस्परम् ।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥

1.18.35

तेषां सन्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥

1.18.36

ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान् ।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥

1.18.37

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः ।
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः ॥

1.18.38

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥

1.18.39

तेषाममृतवीर्याणां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥

1.18.40

ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः ।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम् ॥

1.18.41

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥

1.18.42

ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः ।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥

1.18.43

ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम् ।
सौतिरुवाच ।
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥

1.18.44

ततो नारायणं देवं वचनं चेदमब्रवीत् ।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥
विष्णुरुवाच ।

1.18.45

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम् ॥
सौतिरुवाच ।

1.18.46

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥

1.18.47

तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः । प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता ।
कृष्णरूपधरा देवी सर्वाभरणभूषिता ॥

1.18.48

ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् ।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥

1.18.49

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥

1.18.50

कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसम्भवः ।
मरीचिविकचः श्रीमान्नारायणौरोगतः ॥

1.18.51

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः । पारिजातश्च तत्रैव सुरभिश्च महामुने ।
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ ॥

1.18.52

ततो जज्ञे महाकायश्चतुर्दन्तो महागजः । कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः ।
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥

1.18.53

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥

1.18.54

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥

1.18.55

ततो नारायणो मायां मोहिनीं समुपाश्रितः ।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥

1.18.56

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥

1.18.57

सा तु नारायणी माया धारयन्ती कमण्डलुम् ।
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः ॥

1.18.58

देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc