भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.186

1.186.1

ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः ।
समैरुदङ्मुकैर्मार्गैर्यथोद्दिष्टं च भारत ॥

1.186.2

अहोरात्रेणाभ्यगच्छन्पाञ्चालनगरं प्रति ।
अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति ॥

1.186.3

चन्द्रास्तमयवेलायामर्धरात्रसमागमे । वारि चैवानुमज्जन्तस्तीर्थं सोमाश्रयायणम् ।

1.186.4

आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥ उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः ।

1.186.5

प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः ॥ तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः ।

1.186.6

शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् ।
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥

1.186.7

स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् ।
विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥

1.186.8

सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या ।
अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते ॥

1.186.9

विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् ।
शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम् ॥

1.186.10

लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् ।
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥

1.186.11

अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः ।
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥

1.186.12

आराच्च तिष्ठतास्माकं समीपं नोपसर्पत ।
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥

1.186.13

अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् ।
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥

1.186.14

अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम ।
अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम् ॥

1.186.15

न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः ।
कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ ॥
अर्जुन उवाच ।

1.186.16

समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते ।
रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः ॥

1.186.17

भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर ।
न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वरां ॥

1.186.18

वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम ।
अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः ॥

1.186.19

पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता ।
गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत ॥

1.186.20

गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् ।
रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा ॥

1.186.21

अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये ।
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः ॥

1.186.22

देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् । तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः ।
गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत् ॥

1.186.23

असम्बाधा देवनदी स्वर्गसम्पादनी शुभा ।
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥

1.186.24

अनिवार्यमसम्बाधं तव वाचा कथं वयम् ।
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥
वैशम्पायन उवाच ।

1.186.25

अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनाम्य कार्मुकम् ।
मुमोच बाणान्निशितानहीनाशीविषानिव ॥

1.186.26

उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम् ।
व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः ॥
अर्जुन उवाच ।

1.186.27

बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते ।
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते ॥

1.186.28

मानुषानति गन्धर्वान्सर्वान् गन्धर्व लक्षये ।
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥

1.186.29

पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः ।
भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः ॥

1.186.30

भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम ।
साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः ॥
वैशम्पायन उवाच ।

1.186.31

इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह ।
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥

1.186.32

विरथं विप्लुतं तं तु स गन्धṟवं महाबलः ।
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥

1.186.33

शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः ।
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥

1.186.34

युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी ।
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥
गन्धर्व्युवाच ।

1.186.35

त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे ।
गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो ॥
युधिष्ठिर उवाच ।

1.186.36

युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् ।
को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन ॥
अर्जुन उवाच ।

1.186.37

जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः ।
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥
गन्धर्व उवाच ।

1.186.38

जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् ।
यशोहीनं न च श्लाघ्यं स्वं नाम जनसंसदि ॥

1.186.39

साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् ।
गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम् ॥

1.186.40

अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः ।
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं ॥

1.186.41

सम्भृता चैव विद्येयं तपसेह मया पुरा ।
निवेदयिष्ये तामद्य प्राणदाय महात्मने ॥

1.186.42

संस्तम्भयित्वा तरसा जितं शरणमागतम् ।
यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥

1.186.43

चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ।
ददौ स विश्वावसवे मम विश्वावसुर्ददौ ॥

1.186.44

सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति ।
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥

1.186.45

यच्चक्षुषा द्रष्टुमिच्छेत्रिषु लोकेषु किञ्चन ।
तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति ॥

1.186.46

एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम् ।
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥

1.186.47

विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः ।
अविशिष्टाश्च देवानामनुभावप्रदर्शिनः ॥

1.186.48

गन्धर्वजानामश्वानामहं पुरुषसत्तम ।
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं ॥

1.186.49

देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः ।
क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥

1.186.50

पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम् ।
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥

1.186.51

ततो भागीकृतो देवैर्वज्रभाग उपास्यते ।
लोके यशोधनं किञ्चित्सैव वज्रतनुः स्मृता ॥

1.186.52

वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् ।
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥

1.186.53

क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः ।
रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः ॥

1.186.54

कामवर्णाः कामजवाः कामतः समुपस्थिताः ।
इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः ॥
अर्जुन उवाच ।

1.186.55

यदि प्रीतेन मे दत्तं संशये जीवितस्य वा ।
विद्याधं श्रुतं वाऽपि न तद्गन्धर्व रोचये ॥
गन्धर्व उवाच ।

1.186.56

संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते ।
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥

1.186.57

त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् ।
तथैव योग्यं बीभत्सो चिराय मरतर्षभ ॥
अर्जुन उवाच ।

1.186.58

त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ ।
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत् ॥

1.186.59

कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः ।
यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः ॥
गन्धर्व उवाच ।

1.186.60

अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः ।
यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः ॥

1.186.61

यक्षराक्षसगन्धर्वपिशाचपतगोरगाः ।
धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् ॥

1.186.62

जानतापि मया तस्मात्तेजश्चाभिजनं च वः ।
इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः ॥

1.186.63

को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ ।
स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम् ॥

1.186.64

यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः ।
विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते ॥

1.186.65

नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम् ।
गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥

1.186.66

स्वयं चापि मया दृष्टश्चरता सागराम्बराम् ।
इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते ॥

1.186.67

वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन ।
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥

1.186.68

सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् । द्रोणमिष्वस्त्रकुशलं धनुष्यह्गिरसां वरम् ॥

1.186.69

धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा । पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान् ।
पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥

1.186.70

दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः ।
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥

1.186.71

उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम् ।
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥

1.186.72

स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति ।
धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः ॥

1.186.73

नक्तं च बलमस्माकं भूय एवाभिवर्धते ।
यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥

1.186.74

सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन ।
येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥

1.186.75

ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि ।
यस्मात्तस्मादहं पार्थ रणे.ञस्मि विजितस्त्वया ॥

1.186.76

यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप ।
नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ॥

1.186.77

यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः ।
जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥

1.186.78

तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् ।
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥

1.186.79

वेदे षडङ्गे निरताः शुचयः सत्यवादिनः ।
धर्मात्यागः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥

1.186.80

जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम् ।
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥

1.186.81

लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम् ।
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥

1.186.82

पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः ।
प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम् ॥

1.186.83

न हि केवलशौर्येण तापत्याभिजनेन च ।
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥

1.186.84

तस्मादेवं विजानीहि कुरूणां वंशवर्धन ।
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc