भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.185

1.185.1

गते भगवति व्यासे पाण्डवा हृष्टमानसाः ।
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः ॥

1.185.2

ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि ।
अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः ॥

1.185.3

क्व भवन्तो गमिष्यन्ति कुतो वाऽगच्छथेति ह ।
युधिष्ठिर उवाच ।
प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः ॥

1.185.4

भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः ।
गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति ॥

1.185.5

इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः ॥
ब्राह्मणा ऊचुः ।

1.185.6

एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः ।
तत्राप्यद्भुतसङ्काश उत्सवो भविता महान् ॥

1.185.7

ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः ।
यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे ॥

1.185.8

दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥

1.185.9

जातो यः पावकाच्छूरः सशरः सशरासनः ।
सुसमिद्धान्महाभागः सोमकानां महारथः ॥

1.185.10

यस्मिन्सञ्जायमाने हि वागुवाचाशरीरिणी ।
एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते ॥

1.185.11

स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे ।
स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः ॥

1.185.12

तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम् ।
गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम् ॥

1.185.13

राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः ।
स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः ॥

1.185.14

तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः ।
महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः ॥

1.185.15

ते तत्र विविधं दानं विजयार्थं नरेश्वराः ।
प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः ॥

1.185.16

प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे ।
यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति ॥

1.185.17

तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः ।
निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥

1.185.18

एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च ।
सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ ॥

1.185.19

दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान् ।
समीक्ष्य कृष्मा वरयेत्सन्गत्यान्यतमं पतिम् ॥

1.185.20

अयमेकश्च वो भ्राता दर्शनीयो महाभुजः ।
नियुध्यमानो विजयेत्सन्गत्य द्रविणं महत् ॥
युधिष्ठिर उवाच ।

1.185.21

परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम् । द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc