भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.175

1.175.1

न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन ।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥

1.175.2

नैव स्वयं सपुत्रस्य गमनं तत्र रोचये । एकस्तव सुतो बालः कन्या चैका तपस्विनी ।
न चैतयोस्तथा पत्न्या गमनं तव रोचये ॥

1.175.3

मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति ।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥
ब्राह्मण उवाच ।

1.175.4

नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन ।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन् ॥

1.175.5

न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते ।
यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम् ॥

1.175.6

आत्मनस्तु वधः श्रेयो बोद्धव्यमिति रोचते ।
ब्रहम्वध्याऽत्मवध्या वा श्रेयानात्मवधो मम ॥

1.175.7

ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।
अबुद्धिपूर्वं कृत्वापि प्रत्यवायो हि विद्यते ॥

1.175.8

न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे ।
परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ॥

1.175.9

अभिसन्धौ कृते तस्मिन्ब्राह्मणस्य वधे मया ।
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ॥

1.175.10

आगतस्य गृहं त्यागस्तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः ॥

1.175.11

कुर्यान्न निन्दितं कर्म न नृशंसं कथञ्चन ।
इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥

1.175.12

श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् ।
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन ॥
कुन्त्युवाच ।

1.175.13

ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा ।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥

1.175.14

न चासौ राक्षसः शक्तो मम पुत्रविनाशने ।
वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥

1.175.15

राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥

1.175.16

समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।
बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥

1.175.17

न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथञ्चन ।
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥

1.175.18

गुरुणा चाननुज्ञातो ग्राहयेद्यः सुतो मम ।
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम् ॥
वैशम्पायन उवाच ।

1.175.19

एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।
हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ॥

1.175.20

ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc