भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.174

1.174.1

कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम् ॥
ब्राह्मण उवाच ।

1.174.2

उपपन्नं सतामेतद्यद्ब्रवीपि तपोधने ।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥

1.174.3

तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य सम्भवम् ।
शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम् ॥

1.174.4

समीपे नगरस्यास्य वको वसति राक्षसः ।
इतो गव्यूतिमात्रे.ञस्ति यमुनागह्वरे गुहा ॥

1.174.5

तस्यां घोरः स वसति जिघांसुः पुरुषादकः ।
बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः ॥

1.174.6

ईशो जनपदस्यास्य पुरस्य च महाबलः ।
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ॥

1.174.7

प्रबलः कामरूपी च राक्षसस्तु महाबलः ।
तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् ॥

1.174.8

तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ।
पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना ॥

1.174.9

अनाथा नगरी नाथं त्रातारं नाधिगच्छति ।
गुहायां च वसंस्तत्र बाधते सततं जनम् ॥

1.174.10

स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् ।
अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः ॥

1.174.11

ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् ।
यदा च सकलानेवं प्रसूदयति राक्षसः ॥

1.174.12

अथैनं ब्राह्मणाः सर्वे समये समयोजयन् ।
मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं ॥

1.174.13

पर्यायेण यथाकाममिह मांसोदनं प्रभो ।
अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् ॥

1.174.14

सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम् ।
सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान् ॥

1.174.15

शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम् ।
वनमाहिषवाराहभाल्लूकं च शृताशृतम् ॥

1.174.16

सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून् ।
सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम् ॥

1.174.17

कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ ।
प्राप्स्यसि त्वमसन्क्रुद्धो रक्षोभागं प्रकल्पितम् ॥

1.174.18

तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः ।
बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत ॥

1.174.19

परचक्राटवीकेभ्यो रक्षणं स करोति च ।
तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली ॥

1.174.20

एकैकं चैव पुरुषं सम्प्रयच्छन्ति वेतनम् ।
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः ॥

1.174.21

तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥

1.174.22

वेत्रकीयगृहे राजा नायं नयमिहास्थितः । उपायं तं न कुरुते यत्नादपि स मन्दधीः ।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥

1.174.23

एतदर्हा वचं नूनं वसामो दुर्बलस्य ये ।
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः ॥

1.174.24

ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः ।
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा ॥

1.174.25

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ।
वयस्य सञ्चयेनास्य ज्ञातीन्पुत्रांश्च तारयेत् ॥

1.174.26

विपीरतं मया चेदं त्रयं सर्वमुपार्जितम् ।
तदिमामापदं प्राप्य भृशं तप्यामहे वयम् ॥

1.174.27

सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥

1.174.28

न च मे विद्यते वित्तं सन्क्रेतुं पुरुषं क्वचित् ।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन ॥

1.174.29

गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः ।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम् ॥

1.174.30

सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ।
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥

1.174.31

दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc