भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.172

1.172.1

न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥

1.172.2

अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।
अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ॥

1.172.3

भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ।
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च ॥

1.172.4

एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत् ॥

1.172.5

तच्च तत्र कृतं कर्म तवापीदं सुखावहम् ।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥

1.172.6

एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव ।
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥

1.172.7

यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि ।
कन्या चैका कुमारश्च कृताहमनृणा त्वया ॥

1.172.8

समर्थः पोषणे चासि सुतयो रक्षणे तथा ।
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥

1.172.9

मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर ।
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम् ॥

1.172.10

कथं हि विधवाऽनाथा बालपुत्रा विना त्वया ।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥

1.172.11

अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम् ।
अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ॥

1.172.12

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः ।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ॥

1.172.13

साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः ।
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥

1.172.14

स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले ।
मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा ॥

1.172.15

अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता ॥

1.172.16

अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् । वस्त्रखण्डं घृताक्तं हि यथा सन्कृष्यते श्वभिः ॥

1.172.17

कथं तव कुलस्यैकमिमं बालमनागसम् ।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥

1.172.18

कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् ।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥

1.172.19

इमामपि च ते बालामनाथां परिभूय माम् ।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥

1.172.20

तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम् ।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥

1.172.21

सम्प्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः ।
अनर्हवशमापन्नामिमां चापि सुतां तव ॥

1.172.22

अवज्ञाता च लोकेषु तथान्मानमजानती ।
अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः ॥

1.172.23

तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ ।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये ॥

1.172.24

त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् ।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥

1.172.25

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः ।
ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः ॥

1.172.26

अनिष्टमिह पुत्राणां विषये परिवर्तितुम् ।
हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती ॥

1.172.27

मरणं याति या भर्तुस्तद्दत्तजलपायिनी ।
भर्तृपादार्पितमनाः सा याति गिरिजापदम् ॥

1.172.28

गिराजायाः सखी भूत्वा मोदते नगकन्यया ।
मितं ददाति हि पिता मितं माता मितं सुतः ॥

1.172.29

अमितस्य हि दातारं का पतिं नाभिनन्दति ।
आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च ॥

1.172.30

स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम् । क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः ॥

1.172.31

परित्यक्तः सुतश्चायं दुहितेयं तथा मया ।
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥

1.172.32

यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा ।
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥

1.172.33

तदिदं यच्चिकीर्षामि धर्मं परमसम्मतम् ।
इष्टं चैव हितं चैव तव चैव कुलस्य च ॥

1.172.34

इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम् ॥

1.172.35

आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥

1.172.36

दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् ।
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥

1.172.37

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः ।
उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात् ॥

1.172.38

आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश ।
विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया ॥

1.172.39

आत्मन्यविद्यमाने चेदस्य नास्तीह किञ्चन । एतज्जगदिदं सर्वमात्मना न समं किल ॥

1.172.40

स कुरुष्व मया कार्यं तारयात्मानमात्मना ।
अनुजानीही मामार्य सुतौ मे परिपालय ॥

1.172.41

अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये ।
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥

1.172.42

निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः ।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥

1.172.43

भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । त्वच्छुश्रूषणसम्भूता कीर्तिश्चाप्यतुला मम ।
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं ॥

1.172.44

जातपुत्रा च वृद्धा च प्रियकामा च ते सदा ।
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥

1.172.45

उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम् ।
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥

1.172.46

न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् ।
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥

1.172.47

एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् ।
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ ॥
वैशम्पायन उवाच ।

1.172.48

एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥

1.172.49

मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे ।
न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन ॥

1.172.50

विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह । त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा ।
न वेत्ति कामं धर्मं च अर्थं मोक्षं च तत्त्वतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc