भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.171

1.171.1

एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥
वैशम्पायन उवाच ।

1.171.2

एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः ।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥

1.171.3

रमणीयानि पश्यन्तो वनानि विविधानि च ।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥

1.171.4

चेरुर्भैश्रं तदा ते तु सर्व एव विशाम्पते ।
युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते ॥

1.171.5

भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः ।
बभूवुर्नागराणां च गुणैः सम्प्रियदर्शनाः ॥
नागरा ऊचुः ।

1.171.6

दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः ।
भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः ॥

1.171.7

नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः ।
चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह ॥

1.171.8

सर्वलक्षणसम्पन्ना भैक्षं नार्हन्ति नित्यशः ।
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् ॥

1.171.9

बन्धूनामागमान्नित्यमुपचारैस्तु नागराः ।
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् ॥

1.171.10

मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः ।
माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति ॥

1.171.11

दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम् ।
भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम् ॥

1.171.12

त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः ।
मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम् ॥

1.171.13

सर्वं सम्पूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक् ।
विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक् ॥

1.171.14

अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः ।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः ॥

1.171.15

स नाशितश्च भवति कल्याणान्नभुजिः पुरा ।
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् ॥

1.171.16

आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत् ।
तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम ॥

1.171.17

तथैव वसतां तत्र तेषां राजन्महात्मनाम् ।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥

1.171.18

भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु ।
कुम्भकारेण सम्बन्धाल्लेभे पात्रं महत्तरम् ॥

1.171.19

कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम् ।
प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा ॥

1.171.20

तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे ।
मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत् ॥

1.171.21

चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन् ।
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च ॥

1.171.22

भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च । एवमेव सदा भुक्त्वा मात्रे वदति वै रहः ।
न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा ॥

1.171.23

ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः ।
सन्गत्य भीमसेनस्तु तत्रास्ते पृथया सह ॥

1.171.24

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥

1.171.25

रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा ।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे ॥

1.171.26

मथ्यमानेव दुःखेन हृदयेन पृथा तदा ।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥

1.171.27

वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने ।
अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः ॥

1.171.28

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ॥
कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम् ॥

1.171.29

एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥

1.171.30

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।
न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥
भीमसेन उवाच ।

1.171.31

ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥
वैशम्पायन उवाच ।

1.171.32

एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम् ।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशाम्पते ॥

1.171.33

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः ।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी ॥

1.171.34

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।
दुहित्रा चैव सहितं ददर्श विकृताननम् ॥
ब्राह्मण उवाच ।

1.171.35

धिगिदं जीवितं लोके गतसारमनर्थकम् ।
दुःखमूलं पराधीनं भृशमप्रियभागि च ॥

1.171.36

जीविते परमं दुःखं जीविते परमो ज्वरः ।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥

1.171.37

आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते ।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम् ॥

1.171.38

आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन ।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते ॥

1.171.39

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् ।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥

1.171.40

यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत ।
तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः ॥

1.171.41

तदिदं जीवितं प्राप्य अल्पकालं महाभयम् । त्यागो हि न मया प्राप्तो भार्यया सहितेन च ॥

1.171.42

न हि योगं प्रपश्यामि येन मुच्येयमापदः ।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम् ॥

1.171.43

यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा ।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम् ॥

1.171.44

इह जाता विवृद्धाऽस्मि पिता माता ममेति वै ।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत् ॥

1.171.45

स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव ।
बन्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥

1.171.46

न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः । सुदूरमपि तं देशं व्रजेद्गरुडहंसवत् ॥

1.171.47

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।
बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥

1.171.48

अथवा मद्विनाशो यं न हि शक्ष्यामि कञ्चन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥

1.171.49

सहधर्मचरीं दान्तां नित्यं मातृसमां मम ।
सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥

1.171.50

पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम् ।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥

1.171.51

कुलीनां शीलसम्पन्नामपत्यजननीमपि ।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ॥

1.171.52

परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् ॥

1.171.53

बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना ॥

1.171.54

यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह ।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥

1.171.55

मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः ।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ ॥

1.171.56

यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् ।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥

1.171.57

कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् ।
प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च ॥

1.171.58

यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः ।
अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा ॥

1.171.59

दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे ।
तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम् ॥

1.171.60

मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् ।
त्यागोऽयं मम सम्प्राप्तो ममन्वा मे सुतस्य वा ॥

1.171.61

तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम् ।
न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि ॥

1.171.62

अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम ।
एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि ॥

1.171.63

अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कञ्चन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥

1.171.64

आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥

1.171.65

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः ।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥

1.171.66

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc