भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.161

1.161.1

एतस्मिन्नेव काले तु यथासम्प्रत्ययं कविः ।
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् ॥

1.161.2

आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम् । गङ्गासन्तरणार्थाय ज्ञाताभिज्ञानवाचिकम् ॥

1.161.3

स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने ।
जनन्या सह कौरव्याननयज्जाह्नवीतटम् ॥

1.161.4

विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः ।
ततस्त्रस्यापि चारेण चेष्टितं पापचेतसः ॥

1.161.5

ततः प्रवासितो विद्वान्विदुरेण नरस्तदा ।
पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥

1.161.6

सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम् ॥

1.161.7

ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् ।
युधिष्ठिर निबोधेयं सञ्ज्ञार्थं वचनं कवेः ॥

1.161.8

कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न हन्तीत्येवमात्मानं यो रक्षति स जीवति ।
बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा ॥

1.161.9

तेन मां प्रेषितं विदिधि विश्वस्तं सञ्ज्ञयाऽनया । भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित् ।
अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः ॥

1.161.10

कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे ।
शकुनिं चैव कौन्तेय विजेताऽसि न संशयः ॥
वैशम्पायन उवाच ।

1.161.11

पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम् ।
निषादाधिपतिं वीरं दाशं परमधार्मिकम् ॥

1.161.12

दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान् ।
ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम् ॥

1.161.13

निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत् ।
विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा ॥
नाविक उवाच ।

1.161.14

विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत् ।
गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह ॥

1.161.15

सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः ।
चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते ॥

1.161.16

प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम् । युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम् ॥

1.161.17

इयं वारिपथे युक्ता नौरप्सु सुखगामिनी ।
मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः ॥
वैशम्पायन उवाच ।

1.161.18

अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान् ।
नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः ॥

1.161.19

विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः ।
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् ॥

1.161.20

इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः ।
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान् ॥

1.161.21

तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः ।
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः ॥

1.161.22

पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः ।
गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः ॥

1.161.23

ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम् ।
जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः ॥

1.161.24

विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः ।
वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे ॥

1.161.25

श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः ।
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥

1.161.26

इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः ।
तं च पापं न जानीमो दग्धो वाथ पुरोचनः ॥

1.161.27

कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ।
शीघ्रमस्मानुपादाय तथैव व्रज भारत ॥

1.161.28

त्वं हि नो बलवानेको यथा सततगस्तथा । इत्युक्तो धर्मराजेन भीमसेनो महाबलः ।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc