भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.160

1.160.1

तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् ।
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥

1.160.2

स तु सञ्चिन्तयामास प्रहृष्टेनान्तरात्मना ।
प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने ॥

1.160.3

तमस्यान्तर्गतं भावं विज्ञाय कुरुपुङ्गवः । चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः ॥

1.160.4

पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित् ॥

1.160.5

अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः ।
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥

1.160.6

आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् ।
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥
वैशम्पायन उवाच ।

1.160.7

अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् ।
चक्रे निशि महाराज आजग्मुस्तत्र योषितः ॥

1.160.8

ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत ।
जग्मुर्निशिं गृहानेव समनुज्ञाप्य माधवीम् ॥

1.160.9

पुरोचनप्रणिहिता पृथां या सेवते सदा ।
निषादी दुष्टहृदया नित्यमन्तरचारिणी ॥

1.160.10

निषादी पञ्चपुत्रा सा तस्मिन्भोज्ये यदृच्छया ।
पुराभ्यासकृतस्नेहा सखी कुन्त्याः सुतैः सह ॥

1.160.11

आनीय मधुमूलानि फलानि विविधानि च । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ।
सुपापा पञ्चपुत्रा च सा पृथायाः सखी मता ॥

1.160.12

सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला ।
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥

1.160.13

सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ।
अथ प्रवाते तुमुले निशि सुप्ते जने तदा ॥

1.160.14

तदुपादीपयद्भीमः शेते यत्र पुरोचनः ।
ततो जतुगृहद्वारं दीपयामास पाण्डवः ॥

1.160.15

समन्ततो ददौ पश्चादग्निं तत्र निवेशने ।
पूर्वमेव गृहं शोध्य भीमसेनो महामतिः ॥

1.160.16

पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम् ।
दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः ॥

1.160.17

गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः । ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः ॥

1.160.18

सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः ।
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः ॥

1.160.19

प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ।
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः ॥

1.160.20

दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना ।
गृहमात्मविनाशाय कारितं दाहितं च तत् ॥

1.160.21

अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा ।
यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत् ॥

1.160.22

दिष्ट्या त्विदानीं पापात्मादग्ध्वा दग्धः पुरोचनः ।
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥
वैशम्पायन उवाच ।

1.160.23

एवं ते विलपन्ति स्म वारणावतका जनाः ।
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥

1.160.24

पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः ।
बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥

1.160.25

तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः ।
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥

1.160.26

भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः ।
जगाम भ्रातॄनादाय सर्वान्मातरमेव च ॥

1.160.27

स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् ।
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः ॥

1.160.28

उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् ।
स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc