भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.153

1.153.1

श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः ।
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः ॥

1.153.2

तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् ।
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रऽब्रवीद्वचः ॥

1.153.3

उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम । तत्र मे निश्चिततमं सन्धिविग्रहकारणम् ।
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव ॥
वैशम्पायन उवाच ।

1.153.4

दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि ।
कणिकं ह्युपसन्गृह्य मन्त्रिणं सौबलस्य च ॥

1.153.5

पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा ।
प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे ॥

1.153.6

अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम् ।
भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम् ॥
वैशम्पायन उवाच ।

1.153.7

स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः ।
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम् ॥
कणिक उवाच ।

1.153.8

शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ ।
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम ॥

1.153.9

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः ॥

1.153.10

नित्यमुद्यतदण्डाद्धि भऋशमुद्विजते जनः ।
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत् ॥

1.153.11

नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात् ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥

1.153.12

नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता ।
सृष्टो नृपो हि विप्रामां पालने दुष्टनिग्रहे ॥

1.153.13

उभाब्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ ।
लोकश्चायं परश्चैव ततो धर्मं समाचरेत् ॥

1.153.14

कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः ।
तेनावमानमाप्नोति पापं चेह परत्र च ॥

1.153.15

यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः ।
तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम् ॥

1.153.16

नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः ।
राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान् ॥

1.153.17

ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम् ।
ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा ॥

1.153.18

परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः । परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः ॥

1.153.19

नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन ।
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम् ॥

1.153.20

वधमेव प्रशंसन्ति शत्रूणामपकारिणाम् ।
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम् ॥

1.153.21

आपद्यापदि काले कुर्वीत न विचारयेत् ।
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन ॥

1.153.22

अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ॥

1.153.23

कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं ॥

1.153.24

दया न तस्मिन्कर्तव्या शरणागत इत्युत ।
निरुद्विग्नो हि भवति न हताज्जायते भयम् ॥

1.153.25

हन्यादमित्रं दानेन तथा पूर्वापकारिणम् ।
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः ॥

1.153.26

मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः ।
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् ॥

1.153.27

छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥

1.153.28

एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥

1.153.29

अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥

1.153.30

अङ्कुशं शोचमित्याहुरर्थानामुपधारणे ।
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत् ॥

1.153.31

फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् ।
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ॥

1.153.32

ततः प्रत्यागते काले भिन्द्याद्धृटमिवाश्मनि ।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ॥

1.153.33

कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् ।
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः ॥

1.153.34

तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत् ।
धृतराष्ट्र उवाच ।
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः ॥

1.153.35

अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम् ।
कणिक उवाच ।
शृणु राजन्यथा वृत्तं वने निवसतः पुरा ॥

1.153.36

जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः ।
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः ॥

1.153.37

सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः ।
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम् ॥

1.153.38

अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन् ।
जम्बुक उवाच ।
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया ॥

1.153.39

युवा वै जवसम्पन्नो बुद्धिशाली न शक्यते ।
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम् ॥

1.153.40

अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः ।
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः ॥

1.153.41

जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः ।
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा ॥

1.153.42

दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम् ।
स्नात्वाऽगच्छत भद्रं वोरक्षामीत्याह जम्बुकः ॥

1.153.43

शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः ।
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः ॥

1.153.44

अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः ।
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम् ॥
व्याघ्र उवाच ।

1.153.45

किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः ।
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् ॥
जम्बुक उवाच ।

1.153.46

शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत् ।
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ॥

1.153.47

मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति ।
तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये ॥
व्याघ्र उवाच ।

1.153.48

ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः ।
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान् ॥

1.153.49

खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितोवनम् ।
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह ॥

1.153.50

तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः ।
शृणु मीषिक भद्रं ते नकुलो यदिहाब्रवीत् ॥

1.153.51

मृगमांसं न खादेयं गरमेतन्न रोचते ।
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम् ॥

1.153.52

तच्छ्रुत्वा मूषिको वाक्यं सन्त्रस्तः प्रगतो बिलम् ।
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ ॥

1.153.53

तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा ।
मृगराजो हि सन्क्रुद्धो न ते साधु भविष्यति ॥

1.153.54

सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम् ।
एवं सञ्चोदितस्तेन जम्बुकेन तदा वृकः ॥

1.153.55

ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः ।
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह ॥

1.153.56

तमुवाच महाराज नकुलं जम्बुको वने ।
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः ॥

1.153.57

मम दत्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् ।
नकुल उवाच ।
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ॥

1.153.58

निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ।
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत् ॥
कणिक उवाच ।

1.153.59

एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः । खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात् ।
एवं समाचरन्नित्यं सुखमेधेत भूपतिः ॥

1.153.60

भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा ।
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा ॥

1.153.61

एवं ते कथितं राजन् शृणु चाप्यपरं तथा ॥

1.153.62

पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः ।
रिपुस्यानेषु वर्तन्तो हन्तव्या भूतिमिच्छता ॥

1.153.63

शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः । विषेण मायया वापि नोपेक्षेते कथञ्चन ।
उभौ चेत्संशयोपेतौ श्रद्धवांस्तत्र वर्धते ॥

1.153.64

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम् ॥

1.153.65

क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता । न चैनं क्रोधसन्दीप्तं विद्यात्कश्चित्कथञ्चन ।
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः ॥

1.153.66

प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥

1.153.67

आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः ।
अथ तं प्रहरेत्काले तथा विचलितं पथि ॥

1.153.68

अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥

1.153.69

यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत् ।
अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत् ॥

1.153.70

प्रत्युत्थानासनाद्येन सम्प्रदानेन केनचित् ।
अतिविश्रब्धघाती स्यात्तीक्ष्णन्दष्ट्रो निमग्नकः ॥

1.153.71

अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः ।
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति ॥

1.153.72

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥

1.153.73

चारः सुविहितः कार्य आत्मनश्च परस्य वा ।
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत् ॥

1.153.74

उद्यानेषु विहारेषु देवतायतनेषु च ।
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ ॥

1.153.75

चत्वरेषु च कूपेषु पर्वतेषु वनेषु च ।
समवायेषु सर्वेषु सरित्सु च विचारयेत् ॥

1.153.76

वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः ।
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः ॥

1.153.77

अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम् ।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता ॥

1.153.78

सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित् ॥

1.153.79

त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च ।
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत् ॥

1.153.80

धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति ।
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः ॥

1.153.81

अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता ।
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा ॥

1.153.82

कर्मणा येन केनैव मृदुना दारुणेन च ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥

1.153.83

न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥

1.153.84

यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् ॥

1.153.85

योऽरिणा सह सन्धाय शयीत कृतकृत्यवत् ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥

1.153.86

मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता ।
आकारमभिरक्षेत चारेणाप्यनुपालितः ॥

1.153.87

न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः ।
प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा ॥

1.153.88

समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत् ।
नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम् ॥

1.153.89

शुकान्वा शारिका वापि बालमूर्खजडानपि ।
प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः ॥

1.153.90

नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः ।
रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम् ॥

1.153.91

वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना ।
एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत् ॥

1.153.92

तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान् ।
षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते ॥

1.153.93

निःसृतो नाशयेन्मन्त्रो हस्तप्राप्तामपि श्रियम् । स्वमतं च परेषां च विचार्य च पुनःपुनः ।
गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः ॥

1.153.94

नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥

1.153.95

कर्शितं व्याधितं क्लिन्नमपानीयमघासकम् ।
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम् ॥

1.153.96

नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम् ।
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत् ॥

1.153.97

सन्ग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता ।
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥

1.153.98

नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा ।
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि ॥

1.153.99

भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥

1.153.100

दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥

1.153.101

अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् ।
न तु बुद्धिक्षयात्किञ्चिदतिक्रामेत्प्रयोजनम् ॥

1.153.102

उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता । विभज्य देशकालौ च दैवं धर्मादयस्त्रयः ।
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः ॥

1.153.103

तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः ।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं सञ्जायते महान् ॥

1.153.104

अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः ।
स वर्धमानो ग्रसते महान्तमपि सञ्चयम् ॥

1.153.105

आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम् ॥

1.153.106

आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः ॥

1.153.107

क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः ।
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः ॥

1.153.108

पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह ।
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर ॥

1.153.109

सर्वकल्याणसम्पन्नो विशिष्ट इति निश्चयः ।
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप ॥

1.153.110

भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप ।
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम् ॥
वैशम्पायन उवाच ।

1.153.111

एवमुक्त्वा सम्प्रतस्थे कणिकः स्वगृहं ततः ।
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc