भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.152

1.152.1

प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् ।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः ॥

1.152.2

ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः ।
अनेकारभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान् ॥

1.152.3

पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम् ।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥

1.152.4

गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा ।
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत ॥

1.152.5

राज्यप्राप्तिं च सम्प्राप्तं ज्येष्ठं पाण्डुसुतं तदा ।
कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥

1.152.6

प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः ।
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥

1.152.7

तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः ।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति ॥

1.152.8

ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम् ।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम् ॥

1.152.9

स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् ।
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥
वैशम्पायन उवाच ।

1.152.10

तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम् ।
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥

1.152.11

स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे ।
ईर्ष्यया चापि सन्तप्तो धृतराष्ट्रमुपागमत् ॥

1.152.12

ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः ।
पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥

1.152.13

श्रुता मे जल्पतां तात पौराणामशिवा गिरः ।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥

1.152.14

मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति ।
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥

1.152.15

पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा ।
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥

1.152.16

स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः ।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः ॥

1.152.17

ते वयं राजवंशेन हीनाः सह सुतैरपि ।
अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥

1.152.18

सततं निरयं प्राप्ताः परपिण्डोपजीविनः ।
न भवेम यथा राजंस्तथा नीतिर्विधीयताम् ॥

1.152.19

यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान् ।
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥
वैशम्पायन उवाच ।

1.152.20

धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् ।
मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥

1.152.21

धर्मनित्यस्तथा पाण्डुः सुप्रीतो मयि कौरवः ।
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः ॥

1.152.22

नात्र किञ्चन जानाति भोजनादि चिकीर्षितम् ।
निवेदयति तत्सर्वं मयि धर्मभृतां वरः ॥

1.152.23

तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा ।
गुणावाँल्लोकविख्यातो नगरे च प्रतिष्ठितः ॥

1.152.24

स कथं शक्यतेऽस्माभिरपाक्रष्टुं नरर्षभः ।
राज्यमेष हि नः प्राप्तः ससहयो विशेषतः ॥

1.152.25

भृता हि पाण्डुनाऽमात्या बलं च सततं मतम् ।
धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥

1.152.26

ते तथा संस्तुतास्तात विषये पाण्डुना नराः ।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥

1.152.27

नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः ।
ते वयं कौरवेन्द्राणामेतेषां च महात्मनाम् ॥

1.152.28

कथं न वाच्यतां तात गच्छेम जगतस्तथा ॥
दुर्योधन उवाच ।

1.152.29

मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः ।
यतः पुतस्ततो द्रोणो भविता नात्र संशयः ॥

1.152.30

कृपः शारद्वतश्चैव यत एव वयं ततः ।
बागिनेयं ततो द्रौणिं न त्यक्ष्यति कथञ्चन ॥

1.152.31

क्षत्ता तु बन्धुरस्माकं प्रच्छन्नस्तु ततः परैः ।
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥

1.152.32

सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय ।
वारणावतमद्यैव नात्र दोषो भविष्यति ॥

1.152.33

विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम् । शोपकपावकमुद्धूतं कर्मणानेन नाशय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc