भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.145

1.145.1

कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे ।
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥

1.145.2

जय हे कुरुराजेति जय हे भीम इत्युत ।
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥

1.145.3

ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् ।
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥

1.145.4

वारयैतौ महावीर्यौ कृतयोग्यावुभावपि ।
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥
वैशम्पायन उवाच ।

1.145.5

तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् । गुरोराज्ञा भीम इति गान्धारे गुरुशासनम् ।
अलं शिक्षाकृतं वेगमलं साहसमित्युत ॥

1.145.6

ततस्तावुद्यतगतौ गुरुपुत्रेण वारितौ ।
युगान्तानिलसन्क्षुब्धौ महावेलाविवार्णवौ ॥

1.145.7

ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् ।
निवार्य वादित्रगणं महामेघनिभस्वनम् ॥

1.145.8

यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः ।
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥

1.145.9

आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा ।
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥

1.145.10

काञ्चनं कवचं बिभ्रत्प्रत्यदृश्य फाल्गुनः ।
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥

1.145.11

ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत् ।
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥
प्रेक्षका ऊचुः ।

1.145.12

एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः ।
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥

1.145.13

एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ।
एष शीलवतां चापि शीलज्ञाननिधिः परः ॥
वैशम्पायन उवाच ।

1.145.14

इत्येवं तुमुला वाचः शुश्रुवुः प्रेक्षकेरिताः ।
कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत् ॥

1.145.15

तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् ।
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥

1.145.16

क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः ।
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥
विदुर उवाच ।

1.145.17

एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः ।
अवतीर्णः सकवचस्तत्रैव सुमिहास्वनः ॥
धृतराष्ट्र उवाच ।

1.145.18

धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते ।
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥
वैशम्पायन उवाच ।

1.145.19

तस्मिन्प्रमुदिते रङ्गे कथञ्चित्प्रत्युपस्थिते ।
दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम् ॥

1.145.20

आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः ।
वायव्येनासृजद्वह्निं पार्जन्येनासृजद्धनान् ॥

1.145.21

भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरीन् ।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥

1.145.22

क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ।
क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम् ॥

1.145.23

सुकुमारं च सूक्ष्मं च गुरु चापि गुरुप्रियः ।
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥

1.145.24

भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।
पञ्चबाणानसन्क्तान्सम्मुमोचैकबाणवत् ॥

1.145.25

गव्ये विषाणकोशे च चले रज्ज्ववलम्बिनि ।
निचखान महावीर्यः सायकानेकविंशतिम् ॥

1.145.26

इत्येवमादि सुमहत्खड्गे धनुषि चानघ ।
गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत् ॥

1.145.27

ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत ।
मन्दीभूते समाजे च वादित्रस्य च निःस्वने ॥

1.145.28

द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः ।
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिःस्वनः ॥

1.145.29

दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते ।
किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः ॥

1.145.30

रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप ।
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥

1.145.31

पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो वभौ ।
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥

1.145.32

अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् ।
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥

1.145.33

स तैस्तदा भ्रातृभिरुद्यतायुधै- र्गदाग्रपाणिः समवस्थितैर्वृतः ।
बभौ यथा दानवसन्क्षये पुरा पुनन्दरो देवगणैः समावृतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc