भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.144

1.144.1

कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत ।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥

1.144.2

कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः ।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च ॥

1.144.3

राजन्सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम ।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥

1.144.4

ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना ।
धृतराष्ट्र उवाच ।
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥

1.144.5

यदानुमन्यसे कालं यस्मिन्देशे यथायथा ।
तथातथा विधानाय स्वयमाज्ञापयस्व माम् ॥

1.144.6

स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम् ।
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥

1.144.7

क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा ।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥

1.144.8

ततो राजानमामन्त्र्य विदुरानुमतोपि हि ।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ॥

1.144.9

समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम् ।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते ॥

1.144.10

अवघुष्टं पुरं चापि तदर्थं भरतर्षभ ।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ॥

1.144.11

प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः ।
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ ॥

1.144.12

मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः ।
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥

1.144.13

तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा ।
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥

1.144.14

बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च ।
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः ॥

1.144.15

रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः ॥

1.144.16

मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम् ।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥

1.144.17

गान्धारी च महाभागा कुन्ती च जयतां वर ।
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः ॥

1.144.18

हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् ॥

1.144.19

दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम् ।
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह ॥

1.144.20

प्रवादितैश्च वादित्रैर्जनकौतूहलेन च ।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥

1.144.21

ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् ।
शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः ॥

1.144.22

रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह ।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥

1.144.23

व्यासस्यानुमते चक्रे बलिं बलवतां वरः ।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम् ॥

1.144.24

सुवर्णमणिरत्नानि वस्त्राणि विविधानि च । प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च ॥

1.144.25

सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम् ।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥

1.144.26

ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः ।
बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः ॥

1.144.27

रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः ।
चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च ॥

1.144.28

आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः ।
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान् ॥

1.144.29

रक्तचन्दनसम्मिश्रैः स्वयमर्चन्ति कौरवाः ।
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः ॥

1.144.30

सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः ।
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः ॥

1.144.31

धनूंषि पूर्व सन्गृह्य तप्तकाञ्चनभूषिताः ।
सज्यानि विविधाकाराः शरैः सन्धाय कौरवा ॥

1.144.32

ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन् ॥

1.144.33

अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः ।
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥

1.144.34

केषाञ्चित्तत्र माल्येषु शरा निपतिता नृप ।
केषाञ्चित्पुष्पमुकुटे निपतन्ति स्म सायकाः ॥

1.144.35

केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः । बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च ॥

1.144.36

केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे ।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः ॥

1.144.37

ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः ।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥

1.144.38

तत्कुमारबलं तत्र गृहीतशरकार्मुकम् ।
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥

1.144.39

सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः ।
विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत ॥

1.144.40

कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् ।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥

1.144.41

गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः ।
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥

1.144.42

लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः ॥

1.144.43

अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ ।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥

1.144.44

बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ ।
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ ॥

1.144.45

तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ ।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ ॥

1.144.46

विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः ।
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc