भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.124

1.124.1

तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥
पाण्डुरुवाच ।

1.124.2

सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥

1.124.3

शश्वद्धर्मात्मना जातो बाल एव पिता मम ।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥

1.124.4

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥

1.124.5

तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा ।
त्यक्तस्य देवैरनयान्मृगयां परिधावतः ॥

1.124.6

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥

1.124.7

अतीव तपसात्मानं योजयिष्याम्यसंशयम् ।
तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ ॥

1.124.8

चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान् ।
पांसुना समवच्छन्नः शून्यागारकृतालयः ॥

1.124.9

वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ।
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ॥

1.124.10

निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ।
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् ॥

1.124.11

प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ।
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ॥

1.124.12

स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति ।
एककालं चरन्भैक्षं कुलानि दश पञ्च च ॥

1.124.13

असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ।
अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित् ॥

1.124.14

अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन् ।
अलाभे यदि वा लाभे समदर्शी महातपाः ॥

1.124.15

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥

1.124.16

न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् ।
जीवितं मरणं चैव नाभिन्दन्न च द्विषन् ॥

1.124.17

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः ॥

1.124.18

तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः ।
सम्परित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः ॥

1.124.19

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥

1.124.20

एतया सततं वृत्त्या चरन्नेवम्प्रकारया ।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥

1.124.21

नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते ।
स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः ॥

1.124.22

सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा ।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥
वैशम्पायन उवाच ।

1.124.23

एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत ॥

1.124.24

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥

1.124.25

ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने ॥

1.124.26

निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः ।
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥

1.124.27

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम् ।
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत् ॥

1.124.28

शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम् ।
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः ॥

1.124.29

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।
त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः ॥

1.124.30

यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशाम्पते ।
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः ॥
पाण्डुरुवाच ।

1.124.31

यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥

1.124.32

त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः ।
वल्कली फलमूलाशी चरिष्यामि महावने ॥

1.124.33

अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥

1.124.34

शीतवातातपसहः क्षुत्पिपासानवेक्षकः ।
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥

1.124.35

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥

1.124.36

वानप्रस्थजनस्यापि दर्शनं कुलवासिनः ।
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥

1.124.37

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽसमापनात् ॥
वैशम्पायन उवाच ।

1.124.38

इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः ।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥

1.124.39

वासांसि च महार्हाणि स्त्रीणामाभरणानि च ।
वाहनानि च मुख्यानि शस्त्राणि कवचानि च ॥

1.124.40

हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च । मणिमुक्ताप्रवालानि रत्नानि विविधानि च ॥

1.124.41

प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने ।
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ॥

1.124.42

प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः ।
ततस्तस्यानुयातारस्ते चैव परिचारकाः ॥

1.124.43

श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः ।
भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥

1.124.44

उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम् ॥

1.124.45

ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः ।
कथयाञ्चक्रिरे राज्ञस्तद्धनं विविधं ददुः ॥

1.124.46

श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने ।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥

1.124.47

न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन् ॥

1.124.48

राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः ।
जगाम सह पत्नीभ्यां ततो नागशतं गिरिम् ॥

1.124.49

स चैत्ररथमासाद्य कालकूटमतीत्य च ।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥

1.124.50

रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ।
उवास स महाराज समेषु विषमेषु च ॥

1.124.51

इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समतप्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc