भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.125

1.125.1

तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् ।
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥

1.125.2

सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः ।
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥

1.125.3

केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा ।
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥

1.125.4

स तु कालेन महता प्राप्य निष्कल्मषं तपः ।
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥

1.125.5

अमावास्यां तु सहिता ऋषयः संशितव्रताः ।
ब्रह्माणं द्रष्टुकामास्ते सम्प्रतस्थुर्महर्षयः ॥

1.125.6

सम्प्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् ।
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः ॥
ऋषय ऊचुः ।

1.125.7

समावायो महानद्य ब्रह्मलोके महात्मनाम् । देवानां च ऋषीणां च पितॄणां च महात्मनाम् ।
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयम्भुवम् ॥
वैशम्पायन उवाच ।

1.125.8

पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः ।
स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः ॥

1.125.9

प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः ।
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥

1.125.10

दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम् ।
विमानशतसम्बाधां गीतस्वरनिनादिताम् ॥

1.125.11

आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा ।
उद्यानानि कुबेरस्य समानि विषमाणि च ॥

1.125.12

महानदीनितम्बांश्च गहनान्गिरिगह्वरान् ।
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः ॥

1.125.13

सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः ।
नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः ॥

1.125.14

वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः ।
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे ॥

1.125.15

न सीदेतामदुःखार्हे मा गमो भरतर्षभ ।
पाण्डुरुवाच ।
अप्रजस्य महाभागा न द्वारं परिचक्षते ॥

1.125.16

स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः ।
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः ॥

1.125.17

अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा ।
ऋषय ऊचुः ।
अस्ति वै तव धर्मात्मन्विद्म देवोपम शुभम् ॥

1.125.18

अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ।
दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय ॥

1.125.19

अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ।
तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि ॥

1.125.20

अपत्यं गुणसम्पन्नं लब्धा प्रीतिकरं ह्यसि ।
वैशम्पायन उवाच ।
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत् ॥

1.125.21

आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc