भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.120

1.120.1

शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् ।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि ॥

1.120.2

पितृष्वस्रीयाय स तामनपत्याय भारत ।
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक् ॥

1.120.3

अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे ।
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥

1.120.4

नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने ।
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम् ॥

1.120.5

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥

1.120.6

दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा ।
सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा ॥

1.120.7

दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम् । यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया ।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥

1.120.8

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति ॥

1.120.9

तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता ।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥

1.120.10

ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा ।
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् ॥

1.120.11

सा ददर्श तमायान्तं भास्करं लोकभावनम् ।
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥

1.120.12

साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः ।
आदित्य उवाच ।
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् ।
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते ॥

1.120.13

पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने ।
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् ॥

1.120.14

शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते ।
नास्य किञ्चिददेयं च ब्राह्मणेभ्यो भविष्यति ॥

1.120.15

चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति ।
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति ॥
वैशम्पायन उवाच ।

1.120.16

एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह । कन्या पितृसा चाहं पुरुषार्थो न चैव मे ॥

1.120.17

कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन् ।
तद्विजिज्ञासयाऽह्वानं कृतवत्यस्मि ते विभो ॥

1.120.18

एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये ।
योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः ॥
सूर्य उवाच ।

1.120.19

वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ ।
सन्त्यज्य भयमेवेह क्रियतां सङ्गमो मम ॥

1.120.20

अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे ।
वृथाऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः ॥

1.120.21

यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् ।
यदि मामवजानासि ऋषिः स न भविष्यति ॥

1.120.22

मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता ।
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा ॥
वैशम्पायन उवाच ।

1.120.23

एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता ।
सा तु नैच्छद्वरारोहा कन्याहमिति भारत ॥

1.120.24

बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी ।
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ ॥

1.120.25

मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत ॥
कुन्त्युवाच ।

1.120.26

प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे ।
त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम् ॥
आदित्य उवाच ।

1.120.27

व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे ।
मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि ॥
वैशम्पायन उवाच ।

1.120.28

एवमुक्ता ततः कुन्ती सम्प्रहृष्टतनूरुहा ।
सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना ॥

1.120.29

प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः । तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः ॥

1.120.30

आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः ।
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥

1.120.31

अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ।
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः ॥

1.120.32

दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः ।
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा ॥

1.120.33

एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् ।
गूहमानापचारं सा बन्धुपक्षभयात्तदा ॥

1.120.34

मञ्जूषां रत्नसम्पूर्णां कृत्वा बालसमाश्रिताम् ।
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम् ॥

1.120.35

तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः ।
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥

1.120.36

नामधेयं च चक्राते तस्य बालस्य तावुभौ ।
वसुना सह जातोऽयं वसुषेणो भवत्विति ॥

1.120.37

स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् ।
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान् ॥

1.120.38

तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः ।
नादेयं ब्राह्मणेष्वासीत्किञ्चिद्वसु महीतले ॥

1.120.39

ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् ।
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम ॥

1.120.40

प्रभातायां रजन्यां त्वामागमिष्यति वासवः ।
न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति ॥

1.120.41

निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा ।
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम ॥
कर्ण उवाच ।

1.120.42

शक्रो मां विप्ररूपेण यदि वै याचते द्विज ।
कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः ॥

1.120.43

विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् ।
तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे ॥
सूर्य उवाच ।

1.120.44

यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति ।
शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम् ॥
वैशम्पायन उवाच ।

1.120.45

एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत ।
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा ॥

1.120.46

तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः ।
कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥

1.120.47

उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम् ।
कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥

1.120.48

प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा ।
अहो साहसमित्याह मनसा वासवो हसन् ॥

1.120.49

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति ॥

1.120.50

प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि ।
कर्ण उवाच ।
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् ॥
वैशम्पायन उवाच ।

1.120.51

शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत् ।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥

1.120.52

यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति । हत्वैकं समरे शत्रुं ततो मामागमिष्यति ।
इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै ॥

1.120.53

प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ ।
कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc