भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.119

1.119.1

गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् ।
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥

1.119.2

रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः ।
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥

1.119.3

मया च सत्यवत्या च कृष्णेन च महात्मना ।
समवस्थापित भूयो युष्मासु कुलतन्तुषु ॥

1.119.4

तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा ।
तथा मया विधातव्यं त्वया चैव न संशयः ॥

1.119.5

श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः ।
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥

1.119.6

कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः ।
उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥

1.119.7

मन्ये वरयितव्यास्ता इत्यहं धीमतां वर ।
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥
विदुर उवाच ।

1.119.8

भवान्पिता भावन्माता भवान्नः परमो गुरुः ।
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥
वैशम्पायन उवाच ।

1.119.9

अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् ।
आराध्य वरदं देवं भगनेत्रहरं हरम् ॥

1.119.10

गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ।
इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः ॥

1.119.11

ततो गान्धारराजस्य प्रेषयामास भारत ।
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा ॥

1.119.12

कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ।
ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥

1.119.13

गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम् ।
आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत ॥

1.119.14

ततः सा पटमादाय कृत्वा बहुगुणं तदा ।
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥

1.119.15

नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया ।
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् ॥

1.119.16

स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् । तां तदा धृतराष्ट्राय ददौ परमसत्कृताम् ।
भीष्मस्यानुमते चैव विवाहं समकारयत् ॥

1.119.17

दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् ।
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥

1.119.18

गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः ।
तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥

1.119.19

गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम् ।
अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत् ॥

1.119.20

सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ ।
नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा ॥

1.119.21

वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा ।
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥

1.119.22

तस्याः सहोदरीः कन्याः पुनरेव ददौ दश ।
गान्धारराजः सुबलो भीष्मेण च वृतस्तदा ॥

1.119.23

सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम् ।
तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम् ॥

1.119.24

शम्भ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः ।
एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः ॥

1.119.25

ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः । अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc