भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.118

1.118.1

धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि । एषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् ।
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥

1.118.2

ऊर्ध्वसस्याऽभवद्भूमिः सस्यानि फलवन्ति च ।
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥

1.118.3

वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः ।
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥

1.118.4

वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः ।
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥

1.118.5

नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः ।
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥

1.118.6

धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः ।
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥

1.118.7

मानक्रोधविहीनाश्च नरा लोभविवर्जिताः ।
अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत ॥

1.118.8

तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत ।
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥

1.118.9

प्रसादशतसम्बाधं महेन्द्रपुरसन्निभम् । नदीषु वनखण्डेषु वापीपल्वलसानुषु ।
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥

1.118.10

उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तथा ।
विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः ॥

1.118.11

नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ।
तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते ॥

1.118.12

कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ।
बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः ॥

1.118.13

भीष्मेण धर्मतो राजन्सर्वतः परिरक्षिते ।
बभूव रमणीयश्च चैत्ययूपशताङ्कितः ॥

1.118.14

स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः ।
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥

1.118.15

क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् ।
पौरजानपदाः सर्वे बभूवुः परमोत्सुकाः ॥

1.118.16

गृहेषु कुरुमुख्यानां पौराणां च नराधिप ।
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥

1.118.17

धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः ।
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥

1.118.18

संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः ।
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥

1.118.19

धनुर्वेदे च वेदे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः ॥

1.118.20

इतिहासपुराणेषु नानाशिक्षासु बोधिताः ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः ॥

1.118.21

वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः ।
भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ॥

1.118.22

धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायामस्त्रेषु विविधेषु च ॥

1.118.23

अर्थधर्मप्रधानासु विद्यासु विविधासु च । गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः ॥

1.118.24

पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यदिकोऽभवत् ।
अन्येभ्यो बलवानासीद्धृतराष्ट्रो महीपतिः ॥

1.118.25

अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः ।
भीष्मेण सर्वधर्माणां प्रणेता विदुरः कृतः ॥

1.118.26

सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा । भावेनागमयुक्तेन सर्वं वेदयते जगत् ॥

1.118.27

त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसम्मितः ।
धर्मनित्यस्तथा राजन्धर्मं च परमं गतः ॥

1.118.28

प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् ।
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥

1.118.29

वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् ।
सर्वध्रमविदां भीष्मः पुराणां गजसाह्वयम् ॥

1.118.30

धृतराष्ट्रस्त्वचक्षुष्ट्वाद्रज्यं न प्रत्यपद्यत ।
पारसवत्वाद्विदुरो राजा पाण्डुर्बभूव ह ॥

1.118.31

अथ शुश्राव विप्रेभ्यः कुन्तिभोजमहीपतेः ।
रूपयौवनसम्पन्नां सुतां सागरगासुतः ॥

1.118.32

सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् । सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि ॥

1.118.33

कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः ।
विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc