भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.115

1.115.1

ततः सत्यवती काले वधूं स्नातामृतौ तदा ।
संवेशयन्ती शयने शनैर्वचनमब्रवीत् ॥

1.115.2

कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति ।
अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति ॥

1.115.3

श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे ।
साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥

1.115.4

ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः ।
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥

1.115.5

ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः ।
जगाम तस्याः शयनं विपुले तपसि स्थितः ॥

1.115.6

तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता ।
विरूप इति वित्रस्ता सन्कुच्यासीन्निमीलिता ॥

1.115.7

विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः । सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः ॥

1.115.8

तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने ।
बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत् ॥

1.115.9

सम्भूव तया सार्धं मातुः प्रियचिकीर्षया ।
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥

1.115.10

ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह ।
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥

1.115.11

निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः । प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥

1.115.12

नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः ।
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥

1.115.13

तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः ।
किन्तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥

1.115.14

तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत् ।
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥

1.115.15

ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् ।
अपरस्यामपि पुनर्मम शोकविनाशनम् ॥

1.115.16

तस्मादवरजं पुत्रं जनयान्यं नराधिपम् ।
भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी ॥

1.115.17

अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥

1.115.18

स तथेति प्रतिज्ञाय निश्चक्राम महायशाः ।
साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥

1.115.19

पुनरेव तु सा देवी परिभाष्य स्नुषां ततः ।
ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम ॥

1.115.20

अम्बालिकां समाहूय तस्यां सत्यवती सुतम् ।
भूयो नियोजयामास सन्तानाय कुलस्य वै ॥

1.115.21

विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे ।
कोन्वेष्यतीति ध्यायन्ती नियतां सम्प्रतीक्षते ॥

1.115.22

ततस्तेनैव विधिना महर्षिस्तामपद्यत ।
अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम् ॥

1.115.23

विवर्णा पाण्डुसन्काशा समपद्यत भारत ।
तां भीतां पाण्डुसन्काशां विषण्णां प्रेक्ष्य भारत ॥

1.115.24

व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ।
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥

1.115.25

तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति ।
नाम चास्यैतदेवेह भविष्यति शुभानने ॥

1.115.26

इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ।
ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत् ॥

1.115.27

कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः । शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥

1.115.28

भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः ।
पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति ॥

1.115.29

तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै । इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥

1.115.30

तं माता पुनरेवान्यमेकं पुत्रमयाचत ।
तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥

1.115.31

ततः कुमारं सा देवी प्राप्तकालमजीजनत् ।
पाण्डुलक्षणसम्पन्नं दीप्यमानमिव श्रिया ॥

1.115.32

यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ।
तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः ॥

1.115.33

कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः ।
अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम् ॥

1.115.34

कौसल्यार्थे समाहूय पुत्रमन्यमयाचत ।
अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम् ॥

1.115.35

एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत ।
नियता यदि कौसल्या भविष्यति पुनःशुभा ॥

1.115.36

भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित् । तां समाधाय वै भूयः स्नुषां सत्यवती पुनः ॥

1.115.37

ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् ।
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं ॥

1.115.38

नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ।
ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम् ॥

1.115.39

प्रेषयामास कृष्णाय ततः काशिपतेः सुता ।
सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च ॥

1.115.40

संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह । वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च ॥

1.115.41

कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः ।
तया सहोषितो राजन्महर्षिः संशितव्रतः ॥

1.115.42

उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रेयानुदरमागतः ।
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥

1.115.43

स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः ।
धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः ॥

1.115.44

धर्मो विदुररूपेण शापात्तस्य महात्मनः ।
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥

1.115.45

कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् ।
प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च ॥

1.115.46

स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च ।
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥

1.115.47

एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि ।
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc