भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.114

1.114.1

पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये ।
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥

1.114.2

ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् ।
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥
वैशम्पायन उवाच ।

1.114.3

भीष्मस्य तु वचः श्रुत्वा धर्महेत्वर्थसंहितम् ।
माता सत्यवती भीष्मं पुनरेवाभ्यभाषत ॥

1.114.4

औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम् ।
पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु ॥

1.114.5

त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत ।
यथा च ते पितुर्वाक्यं मम कार्यं तथाऽनघ ॥

1.114.6

मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते ।
बाल एव गतः स्वर्गं भारतो भरतर्षभ ॥

1.114.7

इमे महिष्यौ तस्येह काशिराजसुते उभे ।
रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥

1.114.8

धर्म्यमेतत्परं ज्ञात्वा सन्तानाय कुलस्य च ।
आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि ॥
भीष्म उवाच ।

1.114.9

असंशयं परो धर्मस्त्वयाः मातः प्रकीर्तितः ।
त्वमप्येतां प्रतिज्ञां तु वेत्थ या मयि वर्तते ॥

1.114.10

अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा ।
उत्सृजेयमहं प्राणान्न तु सत्यं कथञ्चन ॥
सत्यवत्युवाच ।

1.114.11

जानामि त्वयि धर्मज्ञ सत्यं सत्यपराक्रम ।
इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिन्दम ॥

1.114.12

यथा तु नः कुलं चैव धर्मश्च न पराभवेत् ।
सुहृदश्च प्रहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि ॥
भीष्म उवाच ।

1.114.13

त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि ।
सोपायं कुलसन्ताने वक्तुमर्हसि नः परम् ॥

1.114.14

स्त्रियो हि परमं गुह्यं धारयन्ति सदा कुले ।
पुरुषांश्चैव मायाभिर्बह्वीभिरुपगृह्णते ॥

1.114.15

सा सत्यवति सम्पश्य धर्मं सत्यपरायणे । यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः ॥
वैशम्पायन उवाच ।

1.114.16

ततः सत्यवती भीष्मं वाचा संसज्जमानया ।
विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥

1.114.17

सत्यमेतन्महाबाहो यथा वदसि भारत ।
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः ॥

1.114.18

न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम् ।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः ॥

1.114.19

यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः । तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम् ।
शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् ॥

1.114.20

न च विस्रम्भकथितं भवान्सूचितुमर्हति ।
यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ ॥

1.114.21

तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल ।
मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् ॥

1.114.22

मां तु स्वगृहमानीय दुहितृत्वेऽभ्यकल्पयत् । धर्मयुक्तः स धर्मेण पिता चासीत्ततो मम ॥

1.114.23

धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम ।
सा कदाचिदहं तत्र गता प्रथमयौवनम् ॥

1.114.24

अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः ।
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥

1.114.25

स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः ।
उक्त्वा जन्म कुलं मह्यं नासि दाशसुतेति च ॥

1.114.26

तमहं शापभीता च पितुर्भीता च भारत ।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥

1.114.27

प्रेक्ष्य तांस्तु महाभागान्पारावारे ऋषीन्स्थितान् ।
यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान् ॥

1.114.28

पुरस्तादरुणश्चैव तरुणः सम्प्रकाशते ।
येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता ॥

1.114.29

उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः । पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि ॥

1.114.30

अभिभूय स मां बालां तेजसा वशमानयत् ।
तमसा लोकमावृत्य नौगतामेव भारत ॥

1.114.31

मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः ।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥

1.114.32

ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् ।
द्वोपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥

1.114.33

कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः ।
तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः ॥

1.114.34

विस्मिता व्यथिता चैव प्रादामात्मानमेव च । ततस्तदा महात्मा स कन्यायां मयि भारत ।
प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः ॥

1.114.35

पाराशर्यो महायोगी स बभूव महानृषिः ।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ॥

1.114.36

यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥

1.114.37

सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः ।
सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः ॥

1.114.38

स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः ।
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥

1.114.39

स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति ।
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥

1.114.40

तव ह्यनुमते भीष्म नियतं स महातपाः ।
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥
वैशम्पायन उवाच ।

1.114.41

महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । देशकालौ च जानासि क्रियतामर्थसिद्धये ।
धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति ॥

1.114.42

अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् ।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥

1.114.43

यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान् ।
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ॥

1.114.44

उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम् ।
वैशम्पायन उवाच ।
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन ॥

1.114.45

कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ।
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् ॥

1.114.46

प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ।
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम् ॥

1.114.47

परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत ।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु ॥

1.114.48

तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च ।
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥

1.114.49

भवत्या यदभिप्रेतं तदहं कर्तुमागतः ।
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥

1.114.50

तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये ।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम् ॥

1.114.51

पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः ।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् ॥

1.114.52

सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम् ।
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे ॥

1.114.53

तेषां पिता यथा स्वीमी तथा माता न संशयः ।
विधानविहितः स त्वं यथा मे प्रथमः सुतः ॥

1.114.54

विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ।
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः ॥

1.114.55

भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ।
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः ॥

1.114.56

बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने ।
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च ॥

1.114.57

भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ।
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च ॥

1.114.58

आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ।
यवीयसस्व भ्रातुर्भार्ये सुरसुतोपमे ॥

1.114.59

रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ॥

1.114.60

अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ।
व्यास उवाच ।
वेत्थ धर्मं सत्यवति परं चापरमेव च ॥

1.114.61

तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः ।
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ॥

1.114.62

ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम् ।
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् ॥

1.114.63

व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ।
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः ॥

1.114.64

नहि मामव्रतोपेता उपेयात्काचिदङ्गना ।
सत्यवत्युवाच ।
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु ॥

1.114.65

अराजकेषु राष्ट्रेषु प्रजाऽनाथा विनश्यति ।
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता ॥

1.114.66

कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो ।
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति ॥
व्यास उवाच ।

1.114.67

यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः ।
विरूपतां मे सहतां तयोरेतत्परं व्रतम् ॥

1.114.68

यदि मे सहते गन्धं रूपं वेषं तथा वपुः ।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥

1.114.69

तस्यापि च शतं पुत्रा भवितारो न संशयः । गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः ॥
वैशम्पायन उवाच ।

1.114.70

एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा ।
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता ॥

1.114.71

समागमनमाकाङ्क्षेदिति सोऽन्तर्हितो मुनिः ।
ततोऽभिगम्य सा देवी स्नुषां रहसि सन्गताम् ॥

1.114.72

धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ।
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत् ॥

1.114.73

भरतानां समुच्छेदो व्यक्तं मद्भाग्यसन्क्षयात् ।
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् ॥

1.114.74

भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये ।
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा ॥

1.114.75

नष्टं च भारतं वंशं पुनरेव समुद्धṟअ ।
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ॥

1.114.76

स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः । एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा ॥

1.114.77

सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् ।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc