भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.108

1.108.1

चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम् । विवाहं कारयामास शास्त्रदृष्टेन कर्मणा ॥

1.108.2

ततो विवाहे निर्वृत्ते स राजा शान्तनुर्नृपः ।
तां कन्यां रूपसम्पन्नां स्वगृहे सन्न्यवेशयत् ॥

1.108.3

ततः शान्तनवो धीमान्सत्यवत्यामजायत ।
वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः ॥

1.108.4

अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः ।
विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥

1.108.5

अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे ।
स राजा शान्तनुर्धीमान्कालधर्ममुपेयिवान् ॥

1.108.6

स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दनम् ।
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥

1.108.7

स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् ।
मनुष्यं न हि मेन स कञ्चित्सदृशमात्मनः ॥

1.108.8

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा ।
गन्धर्वराजो बलवांस्तुल्यनामाऽभ्ययात्तदा ॥
गन्धर्व उवाच ।

1.108.9

त्वं वै सदृशनामासि युद्धं देहि नृपात्मज ।
नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि ॥

1.108.10

त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः ।
आगतोस्मि वृथाऽभाष्य न गच्छेन्नाम ते मम ॥

1.108.11

इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ ।
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥

1.108.12

तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः ।
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥

1.108.13

तस्मिन्विमर्दे तुमुले शस्त्रवर्षसमाकुले ।
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥

1.108.14

स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिन्दमम् ।
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥

1.108.15

तस्मिन्पुरुषशार्दूले निहते भूरितेजसि ।
भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत् ॥

1.108.16

विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् ।
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥

1.108.17

विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः ।
अन्वशासन्महाराज पितृपैतामहं पदम् ॥

1.108.18

स धर्मशास्त्रकुशलं भीष्मं शान्तनवं नृपः ।
पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc