भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.107

1.107.1

स राजा शान्तनुर्धीमान्देवराजर्षिसत्कृतः ।
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥

1.107.2

शान्तनोः कीर्तयिष्यामि सर्वानेव गुणानहम् । दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।
नित्यान्यासन्महासत्वे शान्तनौ पुरुषर्षभे ॥

1.107.3

एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः ।
आसीद्भरतवंशस्य गोप्ता सर्वजनस्य च ॥

1.107.4

कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥

1.107.5

तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः ।
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥

1.107.6

एवमासीन्महासत्वः शान्तनुर्भरतर्षभ ।
न चास्य सदृशः कश्चिद्धर्मतः पार्थिवोऽभवत् ॥

1.107.7

वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम् ।
तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥

1.107.8

वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः ।
पतिं भारतगोप्तारं समपद्यन्त भूमिपाः ॥

1.107.9

तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा ।
यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः ॥

1.107.10

शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा ।
नियमात्सर्ववर्णानां धर्मोत्तरमवर्तत ॥

1.107.11

ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥

1.107.12

स हास्तिनपुरे रम्ये कुरूणां पुटभेदने ।
वसन्सागरपर्यन्तामन्वशासद्वसुन्धराम् ॥

1.107.13

स देवराजसदृशो धर्मज्ञः सत्यवागृजुः ।
दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥

1.107.14

अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः ॥ तेजसा सूर्यकल्पोऽभूद्वायुवेगसमो जवे ।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥

1.107.15

वधः पशुवराहाणां तथैव मृगपक्षिणाम् ।
शान्तनौ पृथिवीपाले नावर्तत तथा नृप ॥

1.107.16

ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान् ।
समं शशास भूतानि कामरागविवर्जितः ॥

1.107.17

चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा । गुणैरनुपमैर्युक्तः समस्तैराभिगामिकैः ।
गम्भीरः सत्वसम्पन्नः पूर्णचन्द्रनिभाननः ॥

1.107.18

देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः ।
न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥

1.107.19

असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ।
स एव राजा सर्वेषां भूतानामभवत्पिता ॥

1.107.20

तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति ।
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥

1.107.21

यज्ञार्थं पशवः सृष्टाः सन्तानार्थं च मैथुनम् । स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः ।
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥

1.107.22

तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः ।
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥

1.107.23

सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च ।
महाबलो महासत्वो महावीर्यो महारथः ॥

1.107.24

स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् ।
भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः ॥

1.107.25

तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः ।
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥

1.107.26

ततो निमित्तमन्विच्छन्ददर्श स महामनाः ।
कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥

1.107.27

दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् ।
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥

1.107.28

तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके ।
अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम् ॥

1.107.29

जातमात्रं पुरा दृष्टं तं पुत्रं शान्तनुस्तदा ।
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥

1.107.30

स तु तं पितरं दृष्ट्वा मोहयामास मायया ।
सम्मोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥

1.107.31

तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः ।
सङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥

1.107.32

दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् ।
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥

1.107.33

अलङ्कृतामाभरणैर्विरजोम्बरधारिणीम् ।
दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः ॥
गङ्गोवाच ।

1.107.34

यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः ।
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः ॥

1.107.35

गृहाणेमं महाराज मया संवर्धितं सुतम् ।
आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो ॥

1.107.36

वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान् ।
कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥

1.107.37

सुराणां सम्मतो नित्यमसुराणां च भारत ।
उशा वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥

1.107.38

तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः ।
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥

1.107.39

तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ।
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् ॥

1.107.40

यदस्त्रं वेद राभश्च तदेतस्मिन्प्रतिष्ठितम् ।
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् ॥

1.107.41

मया दत्तं निजं पुत्रं वीरं वीर गृहं नय ।
वैशम्पायन उवाच ।
इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत ।
तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः ॥

1.107.42

भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति ।
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम् ॥

1.107.43

सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना ।
पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम् ॥

1.107.44

गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत् ।
पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः ॥

1.107.45

राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ।
स तथा सह पुत्रेण रममाणो महीपतिः ॥

1.107.46

वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ।
स कदाचिद्वनं यातो यमुनामभितो नदीम् ॥

1.107.47

महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ।
तस्य प्रभवमन्विच्छन्विचचार समन्ततः ॥

1.107.48

स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ।
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् ॥

1.107.49

कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ।
साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम् ॥

1.107.50

पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ।
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् ॥

1.107.51

समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः ।
स गत्वा पितरं तस्या वरयामास तां तदा ॥

1.107.52

पर्यपृच्छत्ततस्तस्याः पितरं सोत्मकारणात् ।
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् ॥

1.107.53

जातमात्रैव मे देया वराय वरवर्णिनी ।
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥

1.107.54

यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ ।
सत्यवागसि सत्येन समयं कुरु मे ततः ॥

1.107.55

समयेन प्रदद्यां ते कन्यामहमिमां नृप ।
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥
शान्तनुरुवाच ।

1.107.56

श्रुत्वा तव वरं दाश व्यवस्येयमहं तव ।
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ॥
दाश उवाच ।

1.107.57

अस्यां जायेत यः पुत्रः स राजा पृथिवीपते ।
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥
वैशम्पायन उवाच ।

1.107.58

नाकामयत तं दातुं वरं दाशाय शान्तनुः ।
शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥

1.107.59

स चिन्तयन्नेव तदा दाशकन्यां महीपतिः ।
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः ॥

1.107.60

ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम् ।
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥

1.107.61

सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः ।
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ॥

1.107.62

ध्यायन्निव च मां राजन्नाभिभाषसि किञ्चन ।
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः ॥

1.107.63

व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै ।
वैशम्पायन उवाच ।
स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम् ॥

1.107.64

विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः । एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत ॥

1.107.65

असंशयं ध्यानपरो यथा वत्स तथा शृणु ।
अपत्यं नस्त्वमेवैकः कुले महति भारत ॥

1.107.66

शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः ।
अनित्यतां च लोकानामनुशोचामि पुत्रक ॥

1.107.67

कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् ।
असंशयं त्वमेवैकः शतादपि वरः सुतः ॥

1.107.68

न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे ।
सन्तानस्याविनाशाय कामये भद्रमस्तु ते ॥

1.107.69

अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः । चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत ।
चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः ॥

1.107.70

अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः ।
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥

1.107.71

एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति ।
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥

1.107.72

अपत्येनानृणो लोके पितॄणां नास्ति संशयः । एषा त्रयी पुराणानां देवतानां च शाश्वती ॥

1.107.73

अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत ॥

1.107.74

त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत ।
नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित् ॥

1.107.75

सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् ।
इति ते कारणं तात दुःखस्योक्तमशेषतः ॥
वैशम्पायन उवाच ।

1.107.76

ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः ।
देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत् ॥

1.107.77

अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः ।
सूतं भूयोऽपि सन्तप्त आह्वयामास वै पितुः ॥

1.107.78

सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया ।
तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः ॥

1.107.79

त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः ।
अपि जानासि यदि वै कस्यां भावो नृपस्य तु ॥

1.107.80

तदाचक्ष्व भवान्पृष्टः करिष्ये न तदन्यथा ।
सूत उवाच ।
दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः ॥

1.107.81

वृतः स नरदेवेन तदा वचनमब्रवीत् ।
योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम् ॥

1.107.82

नाकामयत तं दातुं पिता तव वरं तदा ।
स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा ॥

1.107.83

एतत्ते कथितं वीर कुरुष्व यदनन्तरम् ।
वैशम्पायन उवाच ।
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च ।
ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति ॥

1.107.84

क्षत्रियैः सह धर्मात्मा पुराणैर्धर्मचारिभिः ।
उच्चैश्श्रवसमागम्य कन्यां वव्रे पितुः स्वयम् ॥

1.107.85

तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च ।
अब्रवीच्चैनमासीनं राजसंसदि भारत ॥

1.107.86

राज्यशुल्का प्रदातव्या कन्येयं याचतां वर । अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम् ॥

1.107.87

त्वमेवात्र महाबाहो शान्तनोर्वंशवर्धनः ।
पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥

1.107.88

कुमारिकायाः शुल्कार्थं किञ्चिद्वक्ष्यामि भारत । कोहि सम्बन्धखं श्लाघ्यमीप्सितं यौनमीदृशम् ।
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥

1.107.89

अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः ।
यस्य शुक्रात्सत्यवती सम्भूता वरवर्णिनी ॥

1.107.90

तेन मे बहुशस्तात पिता ते परिकीर्तितः ।
अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः ॥

1.107.91

इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा ।
अर्थितश्चापिराजर्षिः प्रत्याख्यातः पुरा मया ॥

1.107.92

कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि त्वां नराधिप ।
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥

1.107.93

भूयांसं त्वयि पश्यामि तद्दोषमपराजित । यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा ॥

1.107.94

न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप ।
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव ॥

1.107.95

एतज्जानीहि भद्रं ते दानादाने परन्तप ॥
वैशम्पायन उवाच ।

1.107.96

एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत ।
शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥

1.107.97

इदं वचनमाधत्स्व नास्ति वक्तास्य मत्समः ।
अन्यो जातो न जनिता न च कश्चन सम्प्रति ॥

1.107.98

एवमेतत्करिष्यामि यथा त्वमनुभाषसे ।
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥

1.107.99

इत्युक्तः पुनरेव स्म तं दाशः प्रत्यभाषत ।
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥

1.107.100

त्वमेव नाथः सम्प्राप्तः शान्तनोरमितद्युते ।
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥

1.107.101

इदं तु वचनं सौम्य कार्यं चैव निबोध मे ।
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम ॥

1.107.102

यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण ।
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥

1.107.103

नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन ।
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥
वैशम्पायन उवाच ।

1.107.104

तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः ।
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥
गाङ्गेय उवाच ।

1.107.105

उच्चैश्श्रवः समाधत्स्व प्रतिज्ञां जनसंसदि ।
ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च ॥

1.107.106

यानि यानीह शृण्वन्तु नास्ति वक्तास्य मत्समः । दाशराज निबोधेदं वचनं मे नृपोत्तम ॥

1.107.107

शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ।
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिपाः ॥

1.107.108

अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम् ।
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति ॥

1.107.109

अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ।
न हि जन्मप्रभृत्युक्तं मया किञ्चिदिहानृतम् ॥

1.107.110

यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः ।
तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे ॥

1.107.111

परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः । ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते ॥
वैशम्पायन उवाच ।

1.107.112

तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः ।
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥

1.107.113

ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा । तद्दृष्टा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ॥

1.107.114

अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ।
ततः स पितुरर्थाय तामुवाच यशस्विनीम् ॥

1.107.115

अधिरोह रथं मातर्गच्छावः स्वगृहानिति ।
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं ॥

1.107.116

आगम्य हास्तिनपुरं शान्तनोः सन्न्यवेदयत् ।
तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः ॥

1.107.117

समेताश्च पृथक्चैव भीष्मोयमिति चाब्रुवन् ।
तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः ॥

1.107.118

बभूव दुःखितो राजा चिररात्राय भारत । स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ ॥

1.107.119

स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने ।
न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि ॥

1.107.120

त्वत्तो ह्यनुज्ञां सम्प्राप्य मृत्युः प्रभविताऽनघ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc