मध्यान्तविभागकारिका · अध्याय 1
आर्यमैत्रेयप्रणीता मध्यान्तविभागकारिका (म्व्क्)
लक्षणपरिच्छेदः प्रथमः
लक्षणं ह्यावृतिस्तत्त्वं प्रतिपक्षस्य भावना ।
तत्रावस्था फलप्राप्तिर्यानानुत्तर्यमेव च
अभूतपरिकल्पो ऽस्ति द्वयं तत्र न विद्यते ।
शून्यता विद्यते त्वत्र तस्यामपि स विद्यते
न शून्यं नापि चाशून्यं तस्मात् सर्वं विधीयते ।
सत्त्वादसत्त्वात् सत्त्वाच्च मध्यमा प्रतिपच्च सा
अर्थसत्त्वात्मविज्ञप्तिप्रतिभासं प्रजायते ।
विज्ञानं नास्ति चास्यार्थस्तदभावात्तदप्यसत्
अभूतपरिकल्पत्वं सिद्धमस्य भवत्यतः ।
न तथा सर्वथाभावात् तत्क्षयान्मुक्तिरिष्यते
कल्पितः परतन्त्रश्च परिनिष्पन्न एव च ।
अर्थादभूतकल्पाच्च द्वयाभावाच्च देशितः
उपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते ।
नोपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते
उपलब्धेस्ततः सिद्धा नोपलब्धिस्वभावता ।
तस्माच्च समता ज्ञेया नोपलम्भोपलम्भयोः
अभूतपरिकल्पश्च चित्तचैत्तास्त्रिधातुकाः ।
तत्रार्थदृष्टिर्विज्ञानं तद्विशेषे तु चैतसाः
एवं प्रत्ययविज्ञानं द्वितीयं चौपभोगिकम् ।
उपभोगपरिच्छेदप्रेरकास्तत्र चैतसाः
छादनाद्रोपणाच्चैव नयनात्संपरिग्रहात् ।
पूरणात् त्रिपरिच्छेदादुपभोगाच्च कर्षणात्
निबन्धनादाभिमख्याद् दुःखनात् क्लिश्यते जगत् ।
त्रेधा द्वेधा च संक्लेशः सप्तधाभूतकल्पनात्
लक्षणं चाथ पर्यायस्तदर्थो भेद एव च ।
साधनञ्चेति विज्ञेयं शून्यतायाः समासतः
द्वयाभावो ह्यभावस्य भावः शून्यस्य लक्षणम् ।
न भावो नापि चाभावओ न पृथक्त्वैकलक्षणम्
तथता भूतकोटिश्चानिमित्तं परमार्थता ।
धर्मधातुश्च पर्यायाः शून्यतायाः समासतः
अनन्यथाविपर्यासतन्निरोधार्यगोचरैः ।
हेतुत्वाच्चार्यधर्मणां पर्यायार्थो यथाक्रमम्
संक्लिष्टा च विशुद्धा च समला निर्मला च सा ।
अब्धातुकनकाकाशशुद्धिवच्छुद्धिरिष्यते
भोक्तृभोजनतद्धेहप्रतिष्ठावस्तुशून्यता ।
तच्च येन यथा दृष्टं यदर्थं तस्य शून्यता
शुभद्वयस्य प्राप्त्यर्थ सदा सत्त्वहिताय च ।
संसारात्यजनार्थं च कुशलस्याक्षयाय च
गोत्रस्य च विशुद्धयर्थं लक्षणव्यञ्जनाप्तये ।
शुद्धये बु[द्ध]धर्माणां बोधिसत्त्वः प्रपद्यते
पुद्गलस्याथ धर्माणामभावः शून्यतात्र हि ।
तदभावस्य सद्भावस्तस्मिन् सा शून्यतापरा
संक्लिष्टा चेद्भवेन्नासौ मुक्तास्स्युः सर्वदेहिनः ।
विशुद्धा चेद्भवेन्नासौ व्यायामो निष्फलो भवेत्
न क्लिष्टा नापि व ऽआक्लिष्टा शुद्धाशुद्धा न चैव सा ।
प्रभास्वरत्वाच्चित्तस्य क्लेशस्यागन्तुकत्वतः
मूल पाठ: Madhyāntavibhāgakārikā · Edition: Ramchandra Pandeya: Madhyantavibhagashastram. Delhi : Motilal Banarsidass, 1971. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0