मध्यमकशास्त्र · अध्याय 4
4 स्कन्धपरीक्षा चतुर्थं प्रकरणम् ।
रूपकारणनिर्मुक्तं न रूपमुपलभ्यते ।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम्
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित्
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् ।
अकार्यकं कारणं स्यात् नास्त्यकार्यं च कारणम्
रूपे सत्येव रूपस्य कारणं नोपपद्यते ।
रूपे ऽसत्येव रूपस्य कारणं नोपपद्यते
निष्कारणं पुना रूपं नैव नैवोपपद्यते ।
तस्मात् रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत्
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न कारणस्यासदृशं कार्यमित्युपपद्यते
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः ।
सर्वेषामेव भावानां रूपेणैव समः क्रमः
विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0