भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 5

5.1

5 धातुपरीक्षा पञ्चमं प्रकरणम् ।
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्

5.2

अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित् ।
असत्यलक्षणे भावे क्रमतां कुह लक्षणम्

5.3

नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे ।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते

5.4

लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते ।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः

5.5

तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते

5.6

अविद्यमाने भावे च कस्याभावो भविष्यति ।
भावाभावविधर्मा च भावाभावमवैति कः

5.7

तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् ।
आकाशम् आकाशसमा धातवः पञ्च ये परे

5.8

अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम्

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc